________________
२८६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ भिर्योजनशतैरेकविंशत्युत्तरैर्जम्बुद्वीपकमेरुमस्पृशन् सर्वासु दिक्षु मण्डलिकया व्यवस्थितः, लोकान्तं चैकादशभिरेव योजनशतैरेकादशोत्तरैरस्पृशन् सर्वतोऽवंगन्तव्यः, ताराग्रहास्त्वनियतचारित्वादित्यादि । अनियता चैषां गतिरुलमधस्तिर्यक चेत्यतोऽधस्तात् तावल्लम्बन्तेऽङ्गारकादयो यावत् सूर्याद् दश योजनानि भवन्त्यनवस्थितचारित्वात्, एवं चाधस्ताद् दशयोजनावलम्बकसंयोगादष्टासु योजनशतेषु सूर्य इति । अत्र च सर्वोपरि किल स्वातिनक्षत्रं, नक्षत्रमण्डलिकायाः सवोधस्ताद् भरण्यः, सर्वदक्षिणतो मूलः, सर्वोत्तरतश्चाभीचिरिति । द्योतयन्त इति ज्योतीषि-विमानानीत्यादि । अत्यन्तप्रकाशकारित्वाज्ज्योतिःशब्दाभिधेयानि विमानानि तेषु विमानेषु भवा ये देवास्ते ज्योतिष्काः । यष्टगादिसूत्रात् टक । अपरे ब्रुवते- भाष्यकृता सवृद्धिकः शब्दो नोचरित इत्यतः परिहारो वृद्धेः प्राप्ताया वक्तव्यः, स चायम्-एकानुबन्धकृतस्यानित्यत्वाद् दंष्टाशब्दे ङीष्प्रत्ययाभाववदू वृद्धयभावः॥ज्योतिषो वा देवाः, विमानगतज्योतिषः सम्बन्धिनो देवाः तेन दीव्यन्ति, वपुःसम्बन्धिना वा ज्योतिषा ज्वलन्तीति ज्योतिष्काः, ज्योतिरेव वा भास्वरशरीरत्वात् समस्तदिग्मण्डलद्योतनत्वादतः स्वार्थे कन् । ज्योतिष्काः । मुकुटेष्वित्यादि । मुकुटेषु चिह्नानि भवन्ति-शिरोमुकुटोपगृहीनि प्रभामण्डलस्थानीयान्युज्ज्वलानि सूर्यादीनि, सूर्यस्य सूर्याकारं चिह्नम्, एवं चन्द्रादीनामपीति ॥ १३ ॥
त एते पश्चविधा अपि ज्योतिष्काः
सूत्रम्-मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥४-१४ ॥ भा०-मानुषोत्तरपर्यन्तो मनुष्यलोक इत्युक्तम् (अ० ३, सू० १४), तस्मिन्
. ज्योतिष्का मेरुप्रदक्षिणा नित्यगतयः भर्वन्ति, मेरोः प्रदक्षिणा ज्योतष्काणां गतिः नित्या गतिरेषामिति मेरुप्रदक्षिणानित्यगतयः । एकादशसु एकविंशेषु योजनशतेषु मेरोश्चतुर्दिशं प्रदक्षिणं चरन्ति ।
टी-मानुषोत्तरपर्यन्त इत्यादि भाष्यम्, उक्तलक्षणो मानुषोत्तरगिरिः स पर्यन्तःअवसानं यस्यासौ मानुषोत्तरपर्यन्तो मनुष्यलोको विष्कम्भायामाभ्यां पश्चचत्वारिंशल्लक्ष. प्रमाणस्तस्मिन्नेते ज्योतिष्काः सूर्यादयो मेरुप्रदक्षिणा नित्यगतयो भवन्ति । मेरोः प्रदक्षिणा मेरुप्रदक्षिणा नापसव्येति कथयति, नित्यशब्दोऽभीक्ष्णवचनः । नित्या गतिरेपामिति नित्यगतयोऽनवरतभ्रमणा इत्यर्थः । नित्यग्रहणाद् गतेरुपरमाभावं प्रतिपादयति, साऽपि गतिः
१‘एकोनविंशत्यु' इति ग-पाठः । यद्यपि सर्वेष्वादशेषु एकोनविंशतीत्यादिक एव पाठस्तथापि एकादशस्वेकविंशेषु इत्याद्यत्तरभाष्यात् इक्कारसजोयणसय इगवीसिकारेत्यादिवचनप्रामाण्याच एकविंशतीत्यादिक एवं न्याय्यः' इति ग-टी-पाठः । अयं च जनानन्दपुस्तकालयप्रतिपाठः । २ 'वमन्तव्यः' इति ग-पाठः। ३ 'सूत्रात् ' इति गपाठश्चिन्तनीयः । ४ 'भवन्ति' इति घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org