________________
२९० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ लमनुष्यक्षेत्रव्यापी समय एको वर्तमानकालः, स च परस्ताद् वक्ष्यते स्वरूपतः । अत्र च प्रवचने सङ्ग्रहव्यवहारापेक्षयोभयथा प्रस्थानम् । एके मन्यन्ते-जीवाजीवद्रव्ययोरेव पर्यायः कश्चिद् विशिष्टो वर्तनापरिणामक्रियापरापरत्वलक्षणः काल इति व्यपदिश्यते, न पुनर्जीवाकाशधर्माधर्म
पुद्गलद्रव्यव्यतिरिक्तोऽतिस्पष्टलिङ्गः कश्चिद् द्रव्यविशेषः समस्ति, यमुरकालस्य द्रव्यताविचार:
रीकृत्येदमभिधानं प्रवर्तिष्यते-कालोऽयमिति । अपि च-पश्चास्तिकाया
उक्ताः प्रवचने, यदि कालोऽपि पृथक् स्यात् षडस्तिकायाः प्रसज्येरन्, अनिष्टं चैतत् । आगमश्च-"किमिदं भंते ! कालेत्ति वुच्चत्ति । गोयमा! जीवा चेव अजीवा चेव" (भग०)। अपरे मन्यन्ते-पञ्चास्तिकायव्यतिरिक्तं कालद्रव्यं षष्ठमस्ति कार्यानुमेयत्वादण्वादिवत, असति हि नियामकद्रव्ये किसलयकलिकाफलप्रसवपरिणतयः सहकारतरोयुगपदाविर्भवेयुः, क्रमभाविनी चैषां किसलयादिपरिणतिरुपलभ्यते, ततः शक्यमनुमातुं यदनुरोधादेताः कार्यव्यक्तयस्तारतम्येनात्मातिशयमासादयन्ति सोऽस्त्यत्र कोऽपि कालः । तथादृष्टस्य स तरोरेव कार्याविर्भाव इति चेन्न सततसन्निहितत्वात् समकमेव सकलकार्याविर्भावप्रसङ्गः स्यात् ॥ ननु यस्यापि कालद्रव्यमेकं विविक्तं तस्यापि तत्सनिधानात् सर्वाः कार्यावस्थाः किमिति युगपन्नानुवर्तन्ते ? । उच्यते-तद्धि शिशिरवसन्तादिभेदेन भिद्यमानमनेकधा कार्यव्यक्तीः सृजति, ते च भेदाः प्रतिविशिष्टपरिणतिमनुरुध्यमाना विविक्तकार्यहेतवस्तसादस्तु द्रव्यान्तरं कालः । तथा चागमः-"कई णं भंते ! दव्या पण्णत्ता ? गोयमा! छ दव्वा पण्णत्ता, तंजहा-धम्मथिकाए अधम्मस्थिकाए आगासस्थिकाए जीवत्थिकाए पुग्गलत्थिकाए अद्धासमए" (भग०)। तथा नियुक्तिकारेणाप्यावश्यके द्रव्याद्धायथायुष्कादिभेदं कालं व्याचक्षाणेन पृथग्द्रव्यादिभ्यः कालो व्याख्यात इति । पञ्चमेऽध्याये च यदत्र वक्तव्यं तद् वक्ष्यामः । सम्प्रति प्रकृतमनुस्रियते। स एष कालोऽनन्तसमय इति समूहाध्यारोपादुच्यते-वर्तनादीनि लक्षणानि यस्यासौ वर्तनादिलक्षण इत्युक्तं (२२) मूत्रमात्रेण पञ्चमेऽध्याये, तस्यैवंविधस्य कालस्य, विभागा: समयावलिकादयो ज्योतिष्काणांगतिविशेषकृताः स्वतः सोऽभिन्नः परोपाधिकं भेदमापद्यते,ते चास्य भेदाः सवितगतिविशेषेणोपलक्ष्यन्ते,चारविशेषेण हेतुना नक्तंदिवादयः परिस्थूराः, न तु समयादयोऽत्यन्तसूक्ष्माः । केन ह्याकारेण समयप्रज्ञापनायामादित्यगतिरुपलक्षणं स्यात् । तसादतिस्थूलः कालः कालभेदेन भिद्यमानो भिद्यमानः पराकाष्ठामनुप्राप्तः समय उच्यते। तैयोतिष्कचारविशेषः कृतः-उपलक्षितस्तत्कृतः कालस्यायं विभागकलापः परिज्ञेयः, तत्र समयस्यैकत्वाद् विभागाभावः, समूहस्य चामुख्यत्वादेव न विभागः, तस्माद् विभागशब्द उपचारार्थः कल्पितो विभाग इत्यर्थः॥
१ कोऽयं भदन्त ! काल इत्युच्यते ? गौतम ! जीवाश्चैव अजीवाश्चैव । २ कति भदन्त ! द्रव्याणि प्रज्ञप्तानि ? गौत. मष द्रव्याणि प्रज्ञप्तानि, तद्यथा-धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायः जीवास्तिकायः पुदगलास्तिकायः अद्धासमयः।. .
३ 'उपचारः' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org