________________
२८२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ कोटीकोटीषु आवासाः । भवनानि च दक्षिणार्धाधिपतीनामुत्तरार्धाधिपतीनां च यथास्वं भवन्ति ।
टी०–महामन्दरस्येत्यादि । धातकीखण्डादिमन्दरव्यावृत्त्यर्थं महामन्दरग्रहणम्, चिह्नमा महामन्दरग्रहणमत्र, योजनसहस्रमात्रावगाहित्वात्, तस्य दक्षिणस्यां दिशि तिर्यग्बहीषु योजनलक्षकोटीनां कोटीषु भवन्त्यावासाः, भवनानि च दक्षिणार्धाधिपतीनां चमरादीनामुत्तरार्धाधिपतीनां च बलिप्रभृतीनां यथायथमसुरादीनां इति । आर्षे तु रत्नप्रभाया बाहल्यात् सहस्रमुपर्यधश्च सन्त्यज्य मध्येऽष्टसप्ततिसहस्राधिकलक्षायां कुसुमप्रकरवत् प्रकीर्णानि भवनानि सर्वत्र ॥ भाष्यकाराभिप्रायस्तु
भा०-तत्र भवनानि रत्नप्रभायां बाहल्यार्धमवगाह्य मध्ये, भवनेषु वसन्तीति भवनवासिनः । भवप्रत्ययाश्चैषामिमा नामकर्मनियमात् स्वजातिविशेषनियता विक्रिया भवन्ति । तद्यथा-गम्भीराः श्रीमन्तः काला महाकाया रत्नो
, त्कटमुकुटभास्वराथूडामणिचिहा असुरकुमारा भवन्ति । असुरकुमारदाना शिरोमुखेष्वधिकप्रतिरूपाः कृष्णाः श्यामा मृदुललितगतयः
शिरस्सु फणिचिह्ना नागकुमाराः । लिग्धा भ्राजिष्णवोऽवदाता वनचिह्ना विद्युत्कुमाराः। अधिप्रतिरूपग्रीवोरस्काः श्यामावदाता गरुडचिह्नाः सुपर्णकुमाराः । मानोन्मानप्रमाणयुक्ता भास्वन्तोऽवदाताः घटचिह्नाः अग्निकुमारा भवन्ति । स्थिरपीनवृत्तगात्रा निनोदरां अश्वचिह्ना अवदाता वातकुमाराः। लिग्धाः स्निग्धगम्भीरानुनादमहास्वनाः कृष्णा वर्धमानचिह्नाः स्तनितकुमाराः । उरुकटिष्वधिकप्रतिरूपाः कृष्णश्यामा मकरचिह्ना उदधिकुमाराः । उरःस्कन्धबावग्रहस्तेष्वधिकप्रतिरूपाः श्यामावदाताः सिंहचिह्ना द्वीपकुमाराः। जङ्घानपादेवधिकप्रतिरूपाः श्यामा हस्तिचिह्ना दिक्कुमाराः । सर्वेऽपि च विविधबस्त्राभरणा भवन्तीति ॥११॥
-तत्र भवनानीत्यादि भाष्यम् । रत्नप्रभायां बाहल्यार्धमवगाह्य मध्ये भवनानि भवन्ति,तस्मिन्नेव स्थाने नवतिसहस्राण्यधोऽवगाह्य,आवासास्तु सहस्रद्वयपरिवर्जितायो रन्तप्रभायां सर्वत्रेत्यभिप्रायः । भवप्रत्ययाश्चैषामिमा नामकर्मनियमात् स्वजातिविशेषनियता विक्रिया भवन्ति । भवहेतुकास्ता जन्मतपोनुष्ठाननिरपेक्षा विक्रियाः सम्बध्यन्ते । नामकर्मनियमाच्च स्वजातिविशेषनियता विक्रिया भवन्ति । अङ्गोपाङ्गनामकर्मो
वर्णनम्
१ नावासानां स्थितौ नमः कोऽपि असुरादीनां यथा भवनेषु तेषामिति । २"अर्धः खण्डेऽध समांशे" इत्यनेकाक्तिः तुल्यभागेऽध इति अर्धसुदर्शनदेवनमिति च लिङगानुशासनाताश्चे खण्डार्थोऽर्थोऽत्र । ३'मध्ये भवन्ति' इति घ-पाठः। ४ 'अधिकरूप' इति क-घ-पाठः। ५ 'भास्वतः' इति ग-पाठः। ६ निममोदरा' इति ग-घ-पाहः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org