SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ सूत्रं ११ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् २८१ - भा०- - अत्राह उक्तं भवता – 'देवाश्चतुर्निकायाः' (अ० ४, सू १), 'दशाष्टपञ्चद्वादशविकल्पाः' ( अ० ४, सू० ३ ) इति, तत् के निकायाः के चैषां विकल्पा इति ? । अत्रोच्यते - चत्वारो देवनिकायाः । तद्यथा - भवनवासिनो व्यन्तरा ज्योतिष्का वैमानिका इति ॥ १० ॥ तत्र 0 टी० - अत्राह-उक्तं भवतेत्यादिपात निकाग्रन्थः । देवाश्चतुर्निकाया इत्युक्तमध्यायादौ, तथा दशादिभेदाश्चाधीताः, तदेतन्निर्दिश्यतामञ्जसा के पुनस्ते निकायाः के चैषां निकायानां दशादयो विकल्पा इति १ । अत्रोच्यते- चत्वारस्तावनिकायाः - भवनवा - सिनो व्यन्तरा ज्योतिष्का वैमानिका इति ॥ १० ॥ तत्र तेषु चतुर्षु निकायेषु भवनवासिनामेव तावद् भेदप्रतिपादनं क्रियते, तत्रसूत्रम् - भवनवासिनोऽसुरनागविद्युत्सुपर्णामिवातस्तनितोदधिद्रीपदिक्कुमाराः || ४- ११ ॥ भा०- प्रथमो देवनिकायो भवनवासिनः । इमानि चैषां विधानानि भवन्ति । तद्यथा-असुरकुमाराः, नागकुमाराः, विद्युत्कुमाराः, सुपर्णकुमाराः, अग्निकुमाराः, वातकुमाराः, स्तनितकुमाराः, उद्धिकुमाराः, द्वीपकुमाराः, दिक्कुमारा इति । टी. - भूमिष्ठत्वात् भवनानि तेषु वस्तुं शीलं येषां ते भवनवासिनः, प्रथमो निकायोसुरादयो भेदाः । तत्कुमारशब्दः प्रत्येकमभिसम्बध्यते । कः पुनः कुमारशब्दार्थ इत्याहभा०- कुमार देते कान्तदर्शना अंसुरकुमारा मृदुमधुर ललितगतयः शृङ्गाराभिजातरूपविक्रियाः कुमारवच्चोद्धतरूपवेषभाषाभरणप्रहरणावरणपातयानवाहनाः कुमारवच्चोल्बणरागाः क्रीडनपराश्चेत्यतः कुमारा इत्युच्यन्ते । असुरकुमारावासेष्वसुरकुमाराः प्रतिवसन्ति, शेषास्तु भवनेषु ॥ भवनवासिनां विधानानि डी० - कुमारवदेते कान्तदर्शना इति सुज्ञानम् । असुरकुमारावासेष्वसुरकुमाराः प्रतिवसन्ति, आवासाः कायमानस्थानीया महामण्डपा नानारत्नप्रभासितोल्लोचा:, तेषु तादृशेषु भूयसा वसन्त्यसुरकुमाराः कदाचित् भवनेष्वपीति । शेषास्तु नागादयो भवने - वेव प्रायो वसन्ति, नावासेष्विति । तानि च भवनानि बहिर्वृत्तान्यन्तश्चतुरस्त्राण्यधः पुष्कर कर्णिकासंस्थानानि ॥ व पुनस्ते आवासा भवनानि चेत्याह भा०- महामन्दरस्य दक्षिणोत्तरयोर्दिग्रविभागयो बैवाषु येोजनशतसहस्र १' सुकुमारा' इति घ- पाठः । २ ' प्रहरणचरणपातवाहनाः' इति क- पाठः, तु घ-पाठः । ३६ Jain Education International For Private & Personal Use Only ( 3 प्रहरणावरणयानवाहनाः इति www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy