SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २८३ भवनसङ्ख्या सूत्र १२] स्वोपज्ञभाष्य-टीकालङ्कृतम् दयाभिर्माणनामकर्मोदयात् वर्णादिनामोदयाच प्रतिजातिविशेषकारिण्यो विक्रिया जायन्ते । गम्भीरा घनशरीराः श्रीमन्तः सर्वाङ्गोपाङ्गसुन्दराः कृष्णवर्णा महाशरीरा इत्येतत् सर्व नामकर्मोदयजनितमेषामसुराणाम्, एवं नागादीनामपि योजनीयं स्वजातिविशेषनियतवचनात्, शेष भाष्यमेव सुज्ञानम् । एषां च भवनसङ्ख्या सामान्यतः सप्त कोट्यः सप्ततिलेक्षा लक्षद्वयाधिकाः, विशेषेण तु दक्षिणदिग्व्यवस्थितासुराणां चतुस्त्रिंशत् लक्षाः,उत्तरदिग्भाजां त्रिंशदेकत्र चतुष्षष्टिः, दक्षिणदिग्नागानां चतुश्चत्वारिंशदुत्तरदिग्नागानां चत्वारिंशदेकत्र चतुरशी तिः , दक्षिणविद्युत्कुमाराणां चत्वारिंशदुत्तरवासिनां पत्रिंशदेकत्र षट्सप्ततिः । एषैव सङ्ख्या दक्षिणोत्तरभिन्नानामग्निस्तनितोदधिद्वीपदिक्कुमाराणामिति, दक्षिणसुपर्णानामष्टात्रिंशदुत्तरनिवासिनो चतुस्त्रिंशदेकत्र सप्ततिद्वर्युत्तरेति । दक्षिणमरुतां पञ्चाशदुत्तरवासिनां षट्चत्वारिंशदेकत्र षण्णवतिः । लक्षाः सर्वत्र सम्बन्धनीया इति ॥११॥ अधुना भवनचरनिलयानन्तरदेवनिकायोद्देशभाजो येऽष्टविधास्तेऽभिधीयन्तेव्यन्तर भेदाः सूत्रम्--व्यन्तराः किन्नर-किंपुरुष-महोरग-गान्धर्व-यक्ष राक्षस-भूत-पिशाचाः॥४-१२॥ भा०-अष्टविधो द्वितीयो देवनिकायः । एतानि चास्य विधानानि भवन्ति । अधस्तियंगूवं च त्रिष्वपि लोकेषु भवननगरेषु आवासेषु च प्रतिवसन्ति । टी०-अथ किमर्थ व्यन्तरा उच्यन्ते, तत्र भाष्यमधस्तिर्यगूवं चेत्यादि । रत्नप्रया भारत्नकाण्डे योजनशतद्वयवर्जितेऽष्टासु योजनशतेषूत्पन्नाः सन्तस्त्रिलोक्यां - स्वभवनेषु स्वनगरेषु स्वावासेषु च प्रतिवसन्ति बालवत् स्वभावानवस्थानातु, अतो विविधमन्तरम्-आवसनमेषामिति व्यन्तराः । एतदेव स्पष्टयति भाष्यकारः भा०-यस्माच्चाधस्तिर्यगूवं च त्रीनपि लोकान् स्पृशन्तः स्वातन्त्र्यात पराभियोगाच प्रायेण प्रतिपतन्त्यनियतगतिप्रचाराः, मनुष्यानपि केचिद् भृत्यवदुपचरन्ति । विविधेषु च शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्ति, अतो व्यन्तरा इत्युच्यन्ते ॥ तत्र किन्नरा दशविधाः । तद्यथा--किंपुरुषाः किंपुरुषोत्तमाः किन्नराः किनरोत्तमा हृदयङ्गमा रूपशालिनोनिन्दिता मनोरमा रतिकिंपुरुषादिभेदाः ५. प्रिया रतिश्रेष्ठा इति ॥ किंपुरुषा दशविधाः । तद्यथा-पुरुषाः सत्पुरुषाः महापुरुषाः पुरुषवृषभाः पुरुषोत्तमाः अतिपुरुषोत्तमाः १ भुमिष्ठानि नगराणि भवननगराणि, यद्वा भवनानि भूमिष्ठानि नगराणि प्राकारादिविशेषरचनावन्ति तिर्यक् आवासा यथार्ह सर्वत्र योग्यस्थाने । २'अतिपुरुषाः' इति घ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy