SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ सूत्रं ७ ] स्वोपज्ञमाष्य-टीकालङ्कृतम् २७७ बलिश्च । नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमाराणां हरिहरिसहश्च । सुपर्णकुमाराणां वेणुदेवो वेणुदारी च । अग्निकुमाराणां अग्निभवनपत्यादिदेवा व शिखोऽग्निमाणवश्च । वातकुमाराणां वेलम्बः प्रभञ्जनश्च । नामिन्द्राः स्तनितकुमाराणा सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलंप्रभश्च । दीपकुमाराणां पूर्णो वसिष्ठश्च । दिक्कुमाराणाममितगतिरमितवाहनश्चेति ॥ व्यन्तरेष्वपि द्वौ किन्नराणामिन्द्रौ-किन्नरः किंपुरुषश्च । किंपुरुषाणां सत्पुरुषो महापुरुषश्चेति । महोरगाणामतिकायो महाकायश्च । गन्धर्वाणां गीतरतिीतयशाश्च । यक्षाणां पूर्णभद्रो माणिभद्रश्च । राक्षसानां भीमो महाभीमश्च । भूतानां प्रतिरूपोऽतिरूपश्च । पिशाचानां कालो महाकालश्चेति ॥ ज्योतिष्काणां तु बहवः सूर्याश्चन्द्रमसश्च ॥ वैमानिकानामेकैक एव । तद्यथा-सौधर्मे शक्रः । ई(ऐ)शाने ईशानः। सनत्कुमारे सनत्कुमार इति । एवं सर्वकल्पेषु स्वकल्पाइवाः । परतस्त्विन्द्रादयो दश विशेषा न सन्ति । सर्व एव स्वतन्त्रा इति ॥६॥ टी०-पूर्वयोर्देवनिकाययोरित्यादि भाष्यम् । दशाष्टसङ्ख्यापरिच्छिनौ पूर्वशब्देन भवनपतिव्यन्तरनिकायौ परिगृह्येते,तत्र देवविकल्पानामसुरादीनां किन्नरादीनां च प्रत्येकं द्वौ बाविन्द्रौ भवतः, द्वौ द्वाविन्द्रौ एषु विकल्पेषु ते द्वीन्द्राः, पूर्वयोनिकाययोर्विकल्पा भवन्तीत्यन्तगीतवीप्साको बहुव्रीहिः। शेषं सुज्ञानम्,ज्योतिष्काणांत्वित्यादि । इन्द्राधिकारप्रस्तावमुपजीवल्लाँघवार्थमाह-ज्योतिष्कदेवानां सूर्योः शशिनश्चेन्द्राः, ते च बहवोऽसङ्ख्येयद्वीपसमुद्रवर्तित्वात् । वैमानिकानां सौधर्मादिष्वेकैक इन्द्रः, सौधर्मे शक्रः ऐशाने ईशानः, सनत्कुमारे सनत्कुमारः, इत्येवं सर्वविमानेषु सर्वकल्पमध्यवर्तिषु स्वकल्पाहा इन्द्रा भवन्ति । र माहेन्द्रे माहेन्द्रः, ब्रह्मलोके ब्रह्म, लान्तके लान्तकः, महाशुक्रे महाशुक्रः, "कल्पा" . सहस्रारे सहस्रारः, आनतप्राणतयोद्वयोरप्येक एवेन्द्रः प्राणताभिधानः, आरणाच्युतयोद्वयोरपि कल्पयोरेक एवेन्द्रः अच्युतः, अच्युतकल्पात् परत इन्द्रादयो विकल्पा ग्रैवेयकेषु विजयादिषु च न भवन्ति । सवे एव हि ते स्वतन्त्रत्वादहमिन्द्रा गमनागमनरहिताश्च प्राय इति ॥ ६ ॥ ___ अनयोस्तु खलु निातदेवेन्द्रयोरुत्तरत्र देवनिकाययोर्लेश्याभिधाने ग्रहण पुनर्मा कार्यमित्यतः पूर्वयोरित्यधिकृत्याह . सूत्रम्-पीतान्तलेश्याः ॥४-७॥ भा०-पूर्वयोनिकाययोर्देवानां पीतान्ताश्चतस्रो लेश्या भवन्ति ॥७॥ १'जलभवश्च' इति क-पाठः । २ 'अवशिष्टश्च' इतिःघ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy