________________
२७६
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ४
द्रष्टव्याः, अमा सहार्थे, सह भवन्तीत्यमात्याः कार्यालोचनसमर्थाः पिता गुरुरुपाध्यायो महत्तरश्च सर्व एते पूजनीयास्तद्वत् तेऽपि सामानिका इति । त्रयस्त्रिंशदेव त्रायस्त्रिंशाः स्वार्थेऽ 'तद्धिता:' (पा० अ० ४, पा० १, सू० ७६ ) इति बहुवचननिर्देशादनुक्त तद्धितोत्पत्तिर्दृष्टशब्दान्वाख्यानाच्च, एते मन्त्रिपुरोहितस्थानीयाः, मन्त्रिणः -राज्य चिन्ताभराधिरूढमानसाः, पुरोहिताः - शान्तिकपौष्टिकाभिचारिककर्मकारिणः। पारिषद्या वयस्यस्थानीयाः, परिषदि साधवः पारिषद्याः मित्रसदृशाः । आत्मरक्षाः शिरोरक्षस्थानीयाः उद्यतप्रहरणा रौद्राः पृष्ठतोऽवस्थायिनः, अपायाभावात् कल्पनावैयर्थ्यमिति चेत् तद् न स्थितिमात्र परिपालनात् प्रीतिप्रकर्ष हेतुत्वाच्च । लोकपाला आरक्षकार्थचरस्थानीयाः स्वविषयसन्धिरक्षणनिरूपिता आरक्षकाः, अर्थचराौरोद्धरणिकराजस्थानीयादयस्तत्सदृशा लोकपालाः । अनीकाधिपतयो दण्डनायक स्थानीयाः दण्डनायको विक्षेपाधिपतिः सेनापतिरितियावत्, अनीकान्यनीकान्येव सैन्यानीत्यर्थः, गजरथपदातिवाहनस्वरूपाणि प्रतिपत्तव्यानि सूत्रे चानीकान्येवोपात्तानि सूरिणा, नानीकाधिपतयः, भाष्ये पुनरुपन्यस्तास्तदेतदेकत्वमेवानी कानीकाधिपत्योः परिचिन्त्य विवृतमेवं भाष्यकारेण, अन्यथा वा दशसङ्ख्या भिद्येत । प्रकीर्णकाः पैौरजनपदस्थानीयाः प्रकृतिसदृशा इत्यर्थः । आभियोग्या दासस्थानीयाः आभिमुख्येन योगोऽभियोगः- परारिराधयिषयाभिमुखीकृतकर्मविशेषः, अभियोगकर्म आभियोग्यं तद् येषां विद्यते ते भवन्त्याभियोग्याः कर्मकरस्थानीयाः । अन्तस्थस्थानीयाः किल्बिषिका इति अन्तस्था:- चण्डालादयस्तद्वत् किल्बिषिका देवानां मध्य इति ॥ ४ ॥
हय
चतुर्ष्वपि निकायेषु दशविधेन्द्रादिभेदप्रसक्ताविदम पोद्यते ।
सूत्रम् - त्रयस्त्रिंशं लोकपालवर्जा व्यन्तरज्योतिष्काः ॥ ४-५ ॥ भा०- - व्यन्तरज्योतिष्काश्चाष्टविधा भवन्ति, त्रास्त्रिंशलोकपालवज इति ॥ ५ ॥ अतो व्यन्त
ari
डी० - न यथासङ्ख्यमत्र प्रतिपत्तव्यम्, अनन्तरसूत्रे त्वेकशो ग्रहणाद्, त्रिंशा लोकपालाश्च न सम्भवन्ति ज्योतिष्काणां चेत्यतोऽष्टप्रकारा एव ॥ ५ ॥ अथ य एते विकल्पा दशादयश्चतुर्षु निकायेषूक्तास्तत्र किमेकैक इन्द्र उतान्यथेत्यत आह- पूर्वयोन्द्राः । अथवा निकायपारमैश्वर्याच्चतुरिन्द्रप्रसङ्गे सतीदमुच्यते
सूत्रम् - पूर्वयोर्नीन्द्राः ॥ ४–६॥
भा० - पूर्वयोर्देवनिकाययोर्भवनवासिव्यन्तरयोर्देवविकल्पानां द्वौ द्वाविन्द्रौ भवतः । तद्यथा-भवनवासिषु तावद् द्वावसुरकुमाराणां इन्द्रौ भवतः - चमरो १' चेत् न' इति क-पाठः । २ ' मापाद्यते ' इति क-पाठः । ३ ' ० शलोक ०' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org