________________
सूत्रं ४] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२७५ वक्ष्यमाणाः भवनपत्यादीनाम्, अधिवासवाची चायं कल्पशब्दः । अन्ते परिगताः पर्यन्ताः, कल्पोपपन्नाः पर्यन्ता येषां त इमे कल्पोपपन्नपर्यन्ताः कल्पाश्च द्वादश वक्ष्यमाणाः सौधमादयोऽच्युतपर्यवसानाः, तत्पर्यन्तमेतच्चतुष्टयं भवतीत्यावेदयति, परे तु द्विर्विकल्पा:-प्रैवेयकवासिनो विजयादिविमानपञ्चकनिवासिनश्च । भा०–ते च देवनिकाया यथासङ्ख्यमेवंविकल्पा भवन्ति । तद्यथा
दशविकल्पा भवनवासिनः असुरादयो वक्ष्यन्ते । अष्टविकल्पा नवादा व्यन्तराः किन्नरादयः। पञ्चविकल्पा ज्योतिष्काः सूर्यादयः ।
द्वादशविकल्पा वैमानिकाः कल्पोपपन्नपर्यन्ताः सौधर्मा
दिष्वपि ॥ ३॥ टी०- ते च देवनिकाया इत्यादि भाष्यं सुज्ञानमेव ॥ ३ ॥
अनुधा दशादिभेदान् प्रत्येकं पुनर्विभित्सुराहप्रतिकल्पमिन्द्राद्या सूत्रम्--इन्द्रसामानिकत्रायस्त्रिंशंपारिषद्यात्मरक्षलोकपाभेदार
लानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकशः॥४-४॥ भा०-एकैकशश्चैतेषु देवनिकायेषु देवा दशविधा भवन्ति। तद्यथा-इन्द्राः, सामानिकाः, त्रायस्त्रिंशाः, पारिषद्याः, आत्मरक्षाः, लोकपालाः, अनीकाधिपतयः, अनीकानि, प्रकीर्णकाः, आभियोग्याः, किल्बिषिकाश्चेति । तत्रेन्द्रा भवनवासिव्यन्तरज्योतिष्कविमानाधिपतयः । इन्द्रसमानाः सामानिकाः अमात्यपितृगुरूपाध्यायमहत्तरवत् केवलमिन्द्रत्वहीनाः । ब्रायस्त्रिंशाः-मन्त्रिपुरोहितस्थानीयाः। पारिषद्याः-वयस्यस्थानीयाः। आत्मरक्षा:-शिरोरक्षस्थानीयाः । लोकपाला आरक्ष(क्ष)कार्थचरस्थानीयाः। अनीकाधिपतयो-दण्डनायकस्थानीयाः। अन कानि-अनीकस्थानीयान्येव । प्रकीर्णकाः-पौरजनपदस्थानीयाः । आभियोग्या:-दासस्थानीयाः । किल्बिषा:-अन्तस्थस्थानीया इति ॥४॥
टी-एकैकशश्चैतेष्वित्यादि भाष्यम् । दशानामेकैकस्मिन् भेदे एकशो दश दशेन्द्रादयो भवन्ति भेदाः, एवमितरेष्वप्यष्टादिषु । तत्रेन्द्रा इत्यादि। इन्द्राः सामानिका दिभेदानां नवानामधिपतयः परमैश्वर्ययुक्ताः । सामानिकास्त्विन्द्रतुल्या भवन्त्यायुष्कादिभिः, केवलमिन्द्रत्वं सकलकल्पाधिपत्वं नास्ति, शेष समानम्, अतः समानस्थाने भवाः सामानिकाः समानस्य तदादेश्चेति वचनादौपसङ्ख्यानिकष्ठक । अन्यस्यानिर्देशादिन्द्रैः सह समानभावः प्रत्यासन्नै( ते १ )चेति, ते चामात्यपित्गुरूपाध्यायमहत्तरवद्
१ 'दिग्विति' इति घ-पाठः । २०शत्पा०' इति ग-पाठः। ३ किस्विषिका' इति घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org