________________
२७४
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४
देवः पञ्चेन्द्रियतिर्यग्योनिजो मनुष्यो वा देवायुषि बद्धेऽनन्तरागामिजन्मनि यो देवतयोत्पत्स्यते स त्वागामिनीवृत्तिमाश्रित्य देव इति प्रज्ञायते तद्दलिकत्वाद् दारुच्छेदप्रज्ञापनवत्, नरदेवाः-चक्रवर्तिनो रत्नचतुर्दशकाधिपतयः शेषमनुजोत्कृष्टत्वात्, धर्मदेवाः - साधवो यथोक्तप्रवचनार्थानुष्ठा यिनः सद्धर्मप्रधानव्यवहारत्वात्, देवाधिदेवाः - तीर्थकर नामकर्मोदयवर्तिनः कृतार्थाः सदुपदेशेन भव्य सत्त्वानामनुग्राहकत्वाच्छेषदेवपूज्यत्वाच्च भावदेवाः पुनः भवनवनचरज्योतिष्कवैमानिका देवगतिनामकर्मोदयलक्षिताः देवायुषो वेदकाः क्रीडाद्यतिशयवर्तित्वादिति, एवं पञ्चभेदेषु सत्सु देवेषु किमर्थं चतुर्निकाया इति ? उच्यते - भावदेवानामेवात्र विवक्षितत्वाच्चतुर्निकात्वम्, तथा च पातनिकाग्रन्थे सर्वत्र भावप्रस्तावः सूरिणा दर्शितः । अपि चाद्याथ - त्वारो मनुष्या एव कञ्चिदतिशयमङ्गीकृत्य देवा इति यथा तथा प्रतिपादितमेव, तस्माद् भावदेवाश्चतुर्निकाया इति युक्तमुक्तं आचार्येण, ऊर्ध्वलोकस्वरूपाख्यानप्रस्तावे च तदधिकारादिति ॥ १ ॥
अथ कथमेतत् प्रतिपत्तव्यं देवाश्चतुर्निकायाः सन्तीति । उच्यते तदेकदेशनिकायप्रत्यक्षत्वात् तत्सद्भावावगम कोऽयमनुमानभूत उपलभ्यते -
सूत्रम् - तृतीयः पीतलेश्यः ॥ ४-२ ॥
भा०- -तेषां चतुर्णी देवनिकायानां तृतीयो देवनिकायः पीतलेश्य एव भवति । कश्चासौ ? ज्योतिष्क इति ॥ २ ॥
1
टी० - तृतीयः पीतलेश्यः, नहि प्रत्यक्षमपहोतुं शक्यम्, प्रमाण ज्येष्ठत्वात्, चन्द्रादित्यादिविमानानि हि प्रत्यक्षप्रमाणसमधिगम्यानि तानि च कदाचित केनचिदधिष्ठितान्यपि कर्त्रा, निवासत्वान्नगरग्राम गेहादिवत्, ये च तेषामधिष्ठातारस्ते ज्योतिष्का देवा इति प्रतीयताम्, तच्छेषास्तु तदेकदेशदृष्टेः सेनावनादिवत् प्रतिपत्तव्या इति । तृतीय इति क्रमसन्निवेशमा - मङ्गीकृत्येदमुच्यते, अथवा वक्ष्यमाणमिहत्यमेवाभिसन्धाय - ज्योतिष्कदेवनिकायस्तृतीय इत्युक्तम् । पीता लेश्या यस्यासौ पीतलेश्यः, इह च द्रव्यलेश्या - शरीरवर्णः प्रतिनियम्यते, नाध्यवसायविशेषः, लेश्याः षडपीष्यन्ते देवानां प्रतिनिकायमिति । तेषां चतुर्णामित्यादि भाष्यम् । तेषां - पूर्वसूत्रोपन्यस्तानां चतुः सङ्ख्यानियतानां देवसमूहानां तृतीयो देवनिकायः पीतलेश्य एव भवतीति, सामर्थ्यादवधारणोपपत्तेरेवशब्दो नोपात्तः, साक्षाद् दर्शितव सामर्थ्याल्लभ्यो विवृण्वतेति । कश्चासौ तृतीय इत्यविज्ञातक्रमसन्निवेशस्य नामग्राहमाचष्टे - ज्योतिष्क इति ॥ २॥
तेच निकाया यथासङ्ख्यं भवनपतिव्यन्तरज्योतिष्क वैमानिकाख्याः । सूत्रम् -- दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥ ४-३ ॥ टी० - स्वनिकायापान्तरालभेदनियमः क्रियतेऽमुना योगेन, अमी च दशादयो भेद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org