________________
२७८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ४ टी-पूर्वयोरित्यादि भाष्यम् । शास्त्रीयमानुपूर्वमाश्रित्य निर्देशः, पीता अन्ते यासां लेश्यानां ताः पीतान्ताः-कृष्णनीलकापोततेजस्यः, पीतान्ता लेश्या येषां ते पीतान्तलेश्याः, पूर्वयोनिकाययोर्देवा भवन्ति, शरीरवर्णमात्रत्वाद् द्रव्यलेश्या एताः, भावलेश्यास्तु षडपि भवेयुरिति ॥ ७॥
एते च पुनः सर्वे त्रिविधा देवा भवन्ति-सदेवीकाः सप्रवीचाराः, देवानां त्रैविध्यम् ए
१८ अदेवीकाः सप्रवीचाराः, अदेवीका अप्रवीचारा इति । तत्र ये सदेवीकाः सप्रवीचारास्तानधिकृत्येदमुच्यते
सूत्रम्-कायप्रवीचारा आ ऐशानात् ॥ ४-८॥ भा०-भवनवास्यादयो देवा आ ऐशानात् कायप्रवीचारा भवन्ति । कायेन प्रवीचारविचार:
.. प्रवीचार एषामिति । कायप्रवीचारो नाम मैथुनविषयोपसेवनम् ।
" ते हि सङ्क्लिष्टकर्माणो मनुष्यवन्मैथुनसुखमनुप्रलीयमानास्तीव्रानुशयाः कायसङ्क्लेशजं सर्वाङ्गीणं स्पर्शसुखमवाप्य प्रीतिमुपलभन्त इति ॥८॥
टी०-कायः-शरीरं, प्रवीचारो-मैथुनोपसेवा, कायेन प्रवीचार एषामिति कायप्रवीचारा:-पुरुषवन्मैथुनमासेवन्ते भवनवास्यादयः आ ऐशानात्, अभिविधावयमाङ्, न मर्यादायां, यस्माद भवनवासिव्यन्तरज्योतिष्कसौधर्मेशानकल्पेषु जन्मनोत्पद्यन्ते देव्यः, न परत इति, भाष्यं सुज्ञानमेव ॥ ८॥ ___ अथ ये अदेवीकाः सप्रवीचारास्तेषां कथं मैथुनोपसेवेत्याह-. सूत्रम्-शेषाः स्पर्श-रूप-शब्द-मनःप्रवीचारा दयोद्धयोः॥४-९॥
भा०-ऐशानादूर्व शेषाः कल्पोपपन्ना देवा योईयोः कल्पयोः स्पर्शरूपशब्दमनःप्रवीचारा भवन्ति यथासङ्ख्यम् । तद्यथा-सनत्कुमारमाहेन्द्रयोदेवान् मैथुनसुखप्रेप्सूनुत्पन्नास्थान् विदित्वा देव्य उपतिष्ठन्ते । ताः स्पृष्ट्वैवच ते प्रीतिमुपलभन्ते विनिवृत्तास्थाश्च भवन्ति ॥ तथा ब्रह्मलोकलान्तकयोदेवान् एवंभूतोत्पन्नास्थान् विदित्वा देव्यो दिव्यानि स्वभावभास्वराणि सर्वाङ्गमनोहराणि शृङ्गारोदाराभिजाताकारविलासान्युज्ज्वलचारुवेषाभरणानि स्वानि रूपाणि दर्शयन्ति । तानि दृष्ट्वैव ते प्रीतिमुपलभन्ते निवृत्तास्थाश्च भवन्ति। तथा महाशुक्रसहस्रारयोर्देवानुत्पन्नप्रवीचारास्थान् विदित्वा देव्यः श्रुतिविषयसुखानत्यन्तमनोहरान् शृङ्गारोदाराभिजातविलासाभिलाषच्छेदतलतालाभरणरवमिश्रान् हसितकथितगीतशब्दानुदीरयन्ति । तान् श्रुत्वैव प्रीतिमुपलभन्ते निवृ
१ टीकाकारमतमेतत् यदुत शरीरवर्णरूपा लेश्या, अन्ये तु योगपरिणामो लेश्या, लेश्यापुद्गलास्तु अन्य एवागमेषु निर्दिश्यन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org