________________
घात:
॥ श्रीपरमात्मने नमः ॥
चतुर्थोऽध्यायः ४ भा०-अत्राह-उक्तं भवता 'भवप्रत्ययोऽवधि रकदेवानाम्' (अ० १,
सू० २२) इति ॥ तथौदयिकेषु भावेषु देवगतिरिति (अ० २, अध्यायोपोद्- म०६)॥ 'केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य' (अ० ६,
सू०१४ ) ॥ सरागसंयमादयो देवस्य (अ० ६, सू० २०)॥ 'नारकसम्मछिनो नपुंसकानि, न देवाः' (अ० २, सू० ५०-५१ ) । तत्र के देवाः कतिविधा वेति । अत्रोच्यते
टी०-अत्राह-उक्तं भवतेत्यादि सम्बन्धग्रन्थः । उक्तमिदं प्रथमे (सू० २२) भवप्रत्ययोऽवधि रकदेवानामिति । तथा द्वितीये (सू०६) औदयिकभावविचारप्रस्तावे देवगतिरित्युक्तम् । तथा षष्ठे(सू०१४)वक्ष्यति-केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्यास्रवो भवति, तथा तत्रैव सरागसंयमसंयमासंयमाकामनिर्जरा[विरत] बालतपांसि (च) देवस्य (अ०६, सू०२०) आयुष आस्रवो भवति, तथा द्वितीये (मु० ५०-५१) नारकसम्मूछिनो नपुंसकानि, न देवा इति, एवमनेकसूत्रोपात्तदेवशब्दश्रवणाद् आहिततद्विषयजिज्ञासः प्रश्नयति-तत्र के देवाः कतिविधा वेति । तेषु-सूत्रस्थानेषु, के देवाः प्रतिपत्तव्याः-किंस्वरूपाः ? क्रीडाद्यर्थबहुत्वादिति, निरूपितस्वभावाश्च ते किमेकरूपा उत भेदभाज इति द्वितीयः प्रश्नः प्रावृतत्, एवं प्रश्नद्वयोपन्यासानन्तरं सरिराह-अत्रोच्यते-प्रश्नब्येऽप्यनुरूपं प्रतिवचनमिति, प्रश्नद्वयप्रतिवचनदिदित्सया सूत्रमुपन्यस्यति-देवाश्चतुर्निकाया इति । अथवा उक्तं लोकद्वयविधानं भूद्वीपसागरविन्यासेन । अधुनोवेलोकाभिधानावसरस्तदभिधित्सया सूत्रप्रणयनम्।
सूत्रम्-देवाश्चतुर्निकायाः ॥ ४-१ ॥ टी०- नन्वधोलोकतिर्यग्लोकयोरपि देवाः सन्ति, तत् कथमूर्ध्वलोक एवाभिधास्यते चतुर्थाध्याय इति ? । उच्यते-वैमानिकानधिकृत्येदमुच्यते ऊर्ध्वलोकावसर इति, प्रधानत्वात्, अन्यथा भवनपतयोऽधोलोके, व्यन्तरज्योतिष्कास्तिर्यग्लोक इति ।
देवानां भेद- भा०-देवाश्चतुर्निकाया भवन्ति । तानू पुरस्ताद वक्ष्यामः॥१॥
प्रतिपादनम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org