________________
२७० तत्वार्थाधिगमसूत्रम्
[ अध्यायः ३ प्राणी जघन्येनोत्कर्षेण वेति । कायस्थितिर्मनुष्यो भूत्वा तिर्यग्योनिर्वा मरणमनुभूय पुनर्मनुष्येज्वेव मनुष्यः तिर्यक्ष्वेव तिर्यग्योनि रन्तर्येण कतिकृत्वः समुत्पद्यते । तत्र मनुष्याणां यथोतेत्रिपल्योपमान्तमुहर्ते परापरे भवस्थिती, कायस्थितिः सप्ताष्टौ वा भवग्रहणानि प्रकर्षतः सप्ताष्टौ वेति नैरन्तर्येण मानुषः स्यात्, कथं पुनरिदं भाव्यते-पूर्वकोव्यायुर्मनुष्यो मृत्वा पुनः पुनः पूर्वकोट्यायुरेव मनुष्यः सप्तकृत्वः प्रादुरस्तीति, अष्टमभवे तु देवकुरूत्तरकुरुषु उत्पद्यते पश्चाद् देवलोकं गच्छति । तिर्यग्योनिाजनां चेत्यादि । उक्ते भवस्थिती सङ्ग्रहतः। भा०-व्यासतस्तु शुद्धपृथिवीकायस्यपरा द्वादश वर्षसहस्राणि,खरपृथिवीका
.. यस्य द्वाविंशतिः,अपकायस्य सप्त,वायुकायस्य त्रीणि,तेजाकाय. पृथ्व्यादीनामायुर्मानम् मायुमा स्य त्रीणिरात्रिंदिनानि,वनस्पतिकायस्य दश वर्षसहस्राणि। ए.
षांकायस्थितिरसङ्ख्येयाःअवसर्पिण्युत्सर्पिण्यः वनस्पतिकायस्यानन्ताः। द्वीन्द्रियाणां भवस्थिति दश वर्षाणि । त्रीन्द्रियाणामेकोनपञ्चाशद्रा त्रिंदिनानि । चतुरिन्द्रियाणां षण्मासाः । एषां कायस्थितिः सङ्ख्येयानि वर्षेसहस्राणि । पञ्चेन्द्रियतिर्यग्योनिजाः पञ्चविधाः। तद्यथा-मत्स्याः उरगाः परिसपोःपक्षिणश्चतुष्पदा इति । तत्र मत्स्यानामुरगाणां भुजगानां च पूर्वकोट्येव । पक्षिणांपल्योपमासङ्ख्येयभागः।चतुष्पदानां त्रीणि पल्योपमानि गर्भजानां स्थितिः। तत्र म. त्स्यानां भवस्थितिः पूर्वकोटिस्त्रिपञ्चाशदुरगाणां द्विचत्वारिंशत् भुजगानां द्वि. सप्ततिः पक्षिणां स्थलचराणां चतुरशीतिवर्षसहस्राणि सम्मूच्छिमानां भवस्थितिः । एषां कायस्थितिः सप्ताष्टौ भवग्रहणानि । सर्वेषां मनुष्यतिर्यग्योनिजानां कायस्थिति रप्यपरा अन्तर्मुहूतैवेति ॥ १८॥
टी-व्यासतस्तु शुद्धपृथिव्या द्वादश वर्षसहस्राणि खरधरणेद्वाविंशतिरित्यवमादि सुज्ञानम्, एषां पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां कायस्थितिरसङ्ख्येया अवसर्पिण्युत्सर्पिण्यः साधारणवनस्पतेरनन्ता अवसर्पिण्युत्सर्पिण्यः। द्वीन्द्रियाणामित्यादि सुज्ञाना भवस्थितिः । एषां कायस्थितिः सङ्ख्येयानि वर्षसहस्राणि पश्चेन्द्रियेत्यादि सुज्ञानम् । सप्ताष्टौ वा भवग्रहणानि मनुष्यवद्भावनीयानि । सर्वेषामित्यादि मनुष्यतिरश्चामपरा कायस्थितिर्जघन्याऽन्तर्मुहूर्तप्रमाणैव भवतीति ॥ १८ ॥
ग्रन्थाग्रमङ्कतः ८२१२ (१) ॥ इति श्रीतत्त्वार्थसूत्रेऽर्हत्प्रवचने भाष्यानुसारिण्यां टीकायां लोकप्रज्ञप्सिर्ना
___माध्यायस्तृतीयः॥३॥ ॥ इति तृतीयोऽध्यायः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org