________________
सूत्र १७-१८] स्कोमा टीकालङ्कृतम् . २६९
अथैते मनुष्या आर्यादिभेदवर्तिनः कियन्तं कालमनुपाल्यायुःप्राणान् विजहतीत्याह
सूत्रम्-ऋस्थिती परापरे त्रिपल्योपमान्तर्मुहुर्ते ॥३-१७॥ भा०-नरो नरा मनुष्या मानुषा इत्यनन्तरम् । मनुष्याणां परा स्थितिसीणि पल्योपमानि, अपरा अन्तर्मुहूर्तेति॥१७॥ टी०-नरो नरा इत्यादि भाष्यम् । पर्यायाख्यानेन व्याख्यातमेतत् नृशब्दस्य, परा
. उत्कृष्टा स्थितिरायुपोऽवस्थानं जीवितकालः त्रीणि पल्योपमानि
- मनुष्याणाम्, एतानि चाद्धापल्योपसेन जीवानामायूंषि गण्यन्ते, अपरा अन्नहर्ता जघन्या स्थितिरायुषोऽन्तर्मुहूर्तपरिमाणा भवतीति ॥ १७ ॥
सूत्रम्-तिर्यग्योनीनां च ॥३-१८॥
भा०-तिर्यग्योनीनां च परापरे स्थिती निपल्योषमालिगायुमानम् न्तमहर्ते भवतः यथासङ्ख्यमेव । पृथक्करणं यथासङ्ख्या दोषविनिवृत्त्यर्थम, इतरथा पद्येकमेव सूत्रमभविष्यत् । उभयत्र चोभे यथासंख्य स्यातामिति ।
बी०-तिपन्योनीनामप्यत्रैवोच्यो स्थितिरायुषः समानप्रक्रमत्वात् । तिर्यग्योनीनां चेत्यादि भाष्यम् । तिर्यग्योनयः-पृथिव्यप्तेजोकायुक्नस्पतिद्वित्रिचतुःपञ्चेन्द्रियाः तेषामपि परापरे स्थिती जीवितव्यस्य त्रिपल्योपमान्तर्मुहूर्ते भवतः यथासङ्ख्यम् उस्कृष्टजघन्ये स्थिती बोद्धव्ये, पृथग्योगकरणं यथासङ्ख्यदोषविनिवृत्त्यर्थमित्यादि। वृतिबन्योनीनां स्थिती फरापरे त्रिपल्योपमान्तर्मुहूर्ते इत्येवं न्यासे सति त्रिपल्योपमा परा स्थितिर्मनुष्याणाम, अपरा स्थितिस्तिरधामन्तर्मुहूर्तप्रमाणेति एवं स्यात् सूत्रार्थ इत्याचार्याभिप्रायः। न खल्वेवमपि न्यस्यमाने कश्चिद् दोषः, स्थिती परापरे इति समुदितमेवेदं समासपदत्वादभिसमत्स्यते, नृणां स्थिती परापरे त्रिपल्योपमान्तमुहूर्ते तिरश्वां च परापरे त्रिपल्योपमानतमुहूर्ते, व्याख्यानतो का विच्छेदः आषानुवादित्वाद वाऽस्य सूत्रप्रबन्धस्येति ।
भा०-विविधा चैषां मनुष्यतिर्यग्योनिजानां स्थितिः-भवस्थितिः कायस्थितिश्च । मतुल्याणां यथोक्ते त्रिपल्योपमान्तर्मुहूर्ते परापरे भवस्थिती । कायस्थितिस्तु परा सप्ताष्टौ वा भवग्रहणातीति । तियेग्योनिजानां च यथोक्त समासतः परापरे भवस्थिती।।
टी-द्विविधा चैषामित्यादि भाष्यम् । नृतिरश्वां द्विप्रकारा स्थितिः-भवस्थितिः कायस्थितिश्च । तत्रभवस्थितिर्मनुष्यजन्म लब्ध्वा तिर्यग्जन्म वा कियन्तं कालं जीवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org