SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २७२ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ४ टी०–देवाश्चतुर्निकाया इत्यादि भाष्यम् । दीव्यन्तीति देवाः, स्वच्छन्दचारित्वात्, अनवरतक्रीडासक्तचेतसःक्षुत्पिपासादिभिर्नात्यन्तमाघ्राता इति भावार्थः। देवशब्दस्य व्युत्पत्त्यर्थः स्यव्यु- द्योतन्ते वा भास्वरशरीरत्वादस्थिमांसामुक्प्रवन्धरहितत्वात् सर्वाङ्गोपाङ्ग सुन्दरत्वाच्च देवाः । अथवा विना विद्यामन्त्राञ्जनादिभिः पूर्वकृततपोsपेक्षजन्मलाभसमनन्तरमेवाकाशगतिभाजो देवाः, सा यतिशयवती गतिस्तेषामनालम्बाकाशचारिणाम, यथोक्तमाममे (भग० सू०५८४)-कैमहालए णं भंते ! लोए पनत्ते ? गोयमा ! अयं चणं जम्बुद्दीवे दीवे सव्वदीवसमुदाणं मझे खुड्डुलए पण्णत्ते । तेणं कालेणं तेणं समएणं छद्देवा महिड्डिया जंबुहीवे दीवे मन्दरपव्वए मंदरचूलियं सव्वओ समन्ता संपरिक्खिवित्तीण चिडेजा, अहे पं चत्तारिदिसाकुमारीमयरियाओ चसारि बलिपिंडे गहाय जंबुद्दीवस्स दीवस्स चउसुवि दारेसु बहियाभिमुहीओ ठिच्चा ते चत्तारि बलिपिंडे जमगसमग बहियाभिमुहे पवाहेज । पभू णं गोयमा ! ततो एगमेगे देवे ते चत्तारिवि बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए । ते णं गोयमा ! उकिटाए जाव देवगतीए एगे पुरत्थाभिमुहे पयाते, एवं छस्सुवि दिसासु पयाता। तेणं कालेणं तेणं समएणं वाससहस्साउए दारए पयाते, तए णं तस्स दारगस्स अम्मापियरो पहीणा भवन्ति, नो चेव णं ते देवा लोयंत संपाउणति, तए णं सस्स दारगस्स आउए पहीणे भवति, नो चेव णं ते देवा लोयंत संपाउणंति, तए णं तस्स दारगस्स अद्विमिजे पहीणा भवन्ति, नो चेवणं ते लोअंतं संपाउणंति, तए णं तस्स दारगस्स सत्तमेऽवि कुलवंसे पहीणे भवति, नो चेव णं ते लोयंत संपाउणंति, तते णं तस्स दारगस्स नामगोतेऽवि पहीणे भवति, नो चेव णं संपाउणंति, तेसि णं भंते! देवाणं किंगए बहुए अगए बहुए ? गोयमा ! गए बहुए, नोअगए पहुए, गतातो से अगते असंखिजतिभागे, अगतातो से गए असखेज्जगुणे, एवं महालए गोयमा! लोए पण्णते"। तथा विमानमहत्त्वं प्रज्ञापना १ कियन्महान् भदन्त ! लोकः प्रज्ञप्तः ? गौतम ! अयं च जम्बूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां मध्ये क्षुल्लकः प्रज्ञप्तः । तस्मिन् काले तस्मिन् समये षटू देवा महर्द्धिका जम्बूद्वीपे द्वीपे मन्दरपर्वते मन्दरचूलिकां सर्वतः समन्तात् संपरिक्षिप्य तिष्ठेयुः, अथ चतस्रः दिक्कुमारीमहत्तरिकाः चतुरो बलिपिण्डान् गृहीत्वा जम्बूद्वीपस्य द्वीपस्य चतुर्वपि द्वारेषु बहिरभिमुख्यःस्थित्वा तान् चतुरो बलिपिण्डान् युगपद् बहिरभिमुखान् प्रवाहयेयुः। प्रभुौतम! ततः एकैकः देवः तान् चतुरोऽपि बलिपिण्डान् धरणीतलमसंप्राप्तान क्षिप्रमेव प्रतिसंहर्तुम् । ते गौतम ! उत्कृष्टया यावद् देवगत्या एको देवः पूर्वाभिमुखः प्रयातः, एवं षद्रस्वपि दिक्ष प्रयाताः, तस्मिन् काले तस्मिन् समये वषेसहस्रायुष्को दारकः प्रजातः। ततः तस्य दारकस्य मातापितरौ प्रहीणौ भवतः, नैव ते देवा लोकान्तं संप्राप्नुवन्ति, ततः तस्य दारकस्य आयुः प्रहीणं भवति, नैव ते देवा लोकान्तं संप्राप्नुवन्ति, ततः तस्य दारकस्य अस्थिमज्जाः प्रहीणा भवन्ति, नैव ते ( देवा) लोकान्तं संप्राप्नुवन्ति, ततः तस्य दारकस्य सप्तमोऽपि कुलवंशः प्रहीणो भवति, नैव ते लोकान्तं संप्राप्नुवन्ति, ततः तस्य दारकस्य नामगोत्रमपि प्रहीणं भवति, नैव संप्राप्नुवन्ति, तेषां भदन्त ! देवानां किं गतं बहुकं अगतं बहुकं ? गौतम ! गतं बहुकं, न अगतं बहुकं, गतात् तद् अगतं असंख्येयभागे, अगतात् तद् गतं असंख्येयगुणे, एवंमहान् गौतम ! लोकः प्रज्ञप्तः। .. २'बलदेवा' इतिक-पाठः। ३'वेत्ताणं' इति क-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy