________________
स्वोपज्ञभाग्य - टीकालङ्कृतम्
सूत्रम् - प्राङ् मानुषोत्तरान्मनुष्याः ॥ ३-१४ ॥
भा०
- प्राङ् मानुषोत्तरात् पर्वतात् पञ्चत्रिंशत्सु क्षेत्रेषु सान्तरद्वीपेषु जन्मतो मनुष्या भवन्ति । संहरणविद्यर्द्धियोगात् तु सर्वेष्वर्धतृतीयेषु द्वीपेषु समुद्रद्रये च समन्दरशिखरेष्विति । भारतका हैमवतका इत्येवमादयः क्षेत्रविभागेन । जम्बूद्वीपका लवणका इत्येवमादयो द्वीपसमुद्रविभागेनेति ॥ १४ ॥
टी० – मानुषोत्तरगिरिमर्यादाव्यवच्छिन्नाः, पञ्चत्रिंशत्सु भरतक्षेत्रादिषु, सान्तरदीपेषु, जन्मासादयन्ति मनुष्याः, एतेन भाष्येण न व्याप्तिरर्धतृतीयद्वीपानां समुद्रस्य दर्शिता । अधुना व्याप्तिमादर्शयति — संहरणविद्यर्द्धियोगात् त्वित्यादि । सर्वत्र संहर - णादिभिः कारणैः सन्निधानं स्यान्मनुष्याणामिति । एवमेषां स्थानानि निरूप्य मनुष्याणां क्षेत्रादिविभागेन भेदमाख्याति - भारतका इत्यादि सुज्ञानम् ॥ १४ ॥
नैषां क्षेत्रादिकृत एव विभागो विशेष्यते कर्मनिर्वृत्ति संश्रयेण, अतस्तदाख्यानायाहसूत्रम् - आर्या म्लेच्छाश्च ॥ ३-१५ ॥
सूत्रे १४-१५ ]
मनुष्याणां स्थानम्
टी० - शब्दोऽनेन भेदत्वमुभयोरापादयति ।
0
भा० - द्विविधा मनुष्या भवन्ति आर्या म्लेच्छाश्च । तत्रार्थाः षड्विधाःक्षेत्रार्याः, जात्यार्याः, कुलार्याः, कर्मार्याः, शिल्पार्याः, मनुष्य भेदाः भाषार्या इति । तत्र क्षेत्राः पञ्चदशसु कर्मभूमिषु जाताक्षेत्रादिकाश्च स्तथा भरतेष्वर्धषड्विंशतिषु जनपदेषु जाताः शेषेषु च चक्रवर्तविजयेषु । जात्यार्या इक्ष्वाकवो विदेहा हरयोऽम्बष्ठा ज्ञाताः कुरवः कुंवनाला उग्रा भोंगा राजन्या इत्येवमादयः । कुलार्याः कुलकराः चक्रवर्तिनो बलदेवा वासुदेव ये चान्ये आ-तृतीयादा पञ्चमादा सप्तमाद् वा कुलकरेभ्यो वा विशुद्धान्वयप्रकृतयः । कर्मार्या यजनयाजनाध्ययनाध्यापनप्रयोग कृषिलिपिवाणिज्ययोनिपोषणवृत्तयः । शिल्पार्यास्तन्तुवाय कुलाल-नापित-तुन्नवाय देवटादयोऽल्पसावद्याः अगहिताजीवाः । भाषार्या नाम ये शिष्टभाषानियतवर्ण लोकरूढस्पष्टशब्द पञ्चविधानामप्यार्याणां संव्यवहारं भाषन्ते ||
टी०-द्विविधा इत्यादि भाष्यम् । तत्रार्धषड्विंशतिजनपदजाताः भूयसा आर्याः, अन्यत्र जाता म्लेच्छाः, तत्र क्षेत्र -जाति-कुल-कर्म-शिल्प-भाषा - ज्ञानदर्शनचारित्रेषु शिष्टलोकन्यायधर्मानताचरणशीला आर्याः, एतद्विपरीतास्तु म्लेच्छा भवन्त्यव्यक्तानियत भाषाचेष्टत्वात् । तत्रा
१ ' बुचनाला ' इति क-पाठः, ' बुवुनाला ' इति तु घ पाठः । २ ' भोज ' इति क-पाठः । ૨૪
२६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org