________________
२६६
तत्वार्थाधिगमसूत्रम्
[- अध्यायः ३
र्याः षड्विधा इत्यादि । क्षेत्र-जाति-कुल- कर्म - शिल्प-भाषाभेदेन, तत्र क्षेत्रार्या इत्यादि सुज्ञानम् । जात्यार्या इक्ष्वाकव इत्यादि । सर्व एते जातिभेदाः केनचिनिमित्तान्तरेणाध्यवसेयाः । कुलाय इत्यादि । अत्रापि निमित्तभेदेन भिद्यन्ते । अपरे परिभाषन्ते - पित्रन्वयो जातिः, मात्रन्वयः कुलम् | कर्मा इत्यादि । अनाचार्यकं किल कर्म तत्रार्याः कर्मार्याः शिल्पार्या इत्यादि । आचार्योपदेशात् शिक्षितं शिल्पं तन्तुवायादि तत्रार्याः शिल्पार्याः । भाषार्या नामेत्यादि । शिष्टाः सर्वातिशयसम्पन्ना गणधरादयः तेषां भाषा संस्कृताऽर्धमागधिकादिका च, तत्र शिष्टभाषानियता अकारादयो वर्णा विशिष्टेन पौर्वापर्येण सन्निवेशिता यस्य शब्दप्रधान संव्यवहारस्यासौ शिष्टभाषानियतवर्णस्तं लोकरूढस्पष्टशब्दं लोकरूढः - अत्यन्तप्रसिद्धः संव्यवहारेषु स्पष्ट:स्फुटो नाव्यक्तो बालभाषावत् लोकरूढः स्पष्टः शब्दो यस्मिन् संव्यवहारे तमेवंविधम्, पञ्चविधानामप्यार्याणां क्षेत्रादिभेदभाजामनन्तरोक्तानां संव्यवहारमागच्छ याहीदं कुरु मैवं कार्षीरित्येवमादिकं भाषन्ते ये ते भाषार्याः ॥
भा० - अतो विपरीता मिलशः ॥
टी० – उक्त क्षेत्र - जाति-कुल-कर्म- शिल्प- भाषाव्यतिरिक्तक्षेत्रादिषट्कभाजः सर्वे लिशो भवन्ति, शक- यवन- किरात काम्बोज - बाढी कादयोऽनेकभेदाः, तथाऽन्तरद्वीपकाः किल म्लेच्छा एव, क्षेत्रादिषट्क विपर्यासात् ।
भा०- तद्यथा - हिमवतः प्राक् पश्चाच्च चतसृषु विदिक्षु त्रीणि
अन्तरद्वीपकाः
योजनशतानि लवणसमुद्रमवगाह्य चतसृणां मनुष्यविजातीनां चत्वारोऽन्तरद्वीपा भवन्ति, त्रियोजनशतविष्कम्भायामाः । तद्यथा - एकोरुकाणां आभासिकानां लागलिनां विषाणिनामिति १ । चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भाः । एवमेव हयकर्णानां गजकर्णानां गोकर्णानां शष्कुलीकर्णानामिति २ । पञ्च योजनशतान्यवगाह्य पञ्चयोजनशतायामविष्कम्भा एवान्तरद्वीपाः । तद्यथा- आदर्श- मेष-हय- गजमुखनामानः ३ । षड् योजनशतान्यवगाह्य तावदायामविष्कम्भा एवान्तरद्वीपाः । तद्यथा- अश्व - हस्ति-सिंह- व्याघ्रमुखनामानः ४ | सर्वे योजनशतान्यवगाह्य सप्तयोजनशतायामविष्कम्भा एवान्तरद्वीपाः । तद्यथाअश्वकर्ण सिंहकर्ण- हस्तिकर्ण-कर्णप्रावरणनामानः ५ । अष्टौ योजनशतान्यवगाह्याष्टयोजनशतायामविष्कम्भा एवान्तरदीपाः । तद्यथा - उल्कामुख-विधुजिह्न - मेषमुख-विद्युद्दन्तनामानः ६ || नव योजनशतान्यवगाह्य नवयोजनशतायामविष्कम्भा एवान्तरद्वीपा भवन्ति । तद्यथा - नदन्त - गूढदन्त श्रेष्ठदन्त-शुद्ध दन्तनामानः ७ ।
१ 'एवान्तरद्वीपाः, तद्यथा' इति घ- पाठः । २ गजमुखानां व्याघ्रमुखानामादर्शमुखानां गोमुखानामिति' इति घपाठः । ३ ' अश्वमुखानां हस्तिमुखानां सिंहमुखानां व्याघ्रमुखानामिति' इति घ- पाठः । ४ सप्त शतान्यवगाह्य' इति कं-पाठः । ५ ' घनदन्त - श्रेष्ठदन्त' इति क- पाठः । ६ ' विशिष्टदन्त ' इति घ- पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org