________________
२६४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ३ भा०-तदेवमर्वाग्मानुषोत्तरस्यातृतीया दीपाः,समुद्रद्वयं,पञ्च मन्दराः पञ्च
___ त्रिंशत् क्षेत्राणि, त्रिंशदू वर्षधरपर्वताः, पञ्च देवकुरवा, पञ्चोनरलोके द्वीपसमु. । या त्तराः कुरवः, शतं षष्ट्यधिकं चक्रवर्तिविजयानाम् । वे शते
पञ्चपञ्चाशजनपदानाम्, अन्तरद्वीपाः षट्पञ्चाशदिति ॥१३॥ टी०-तदेवमार मानुषोत्तरस्येत्यादि भाष्यम् । व्यावर्णितलक्षणस्य मानुषोत्तरगिरेरोग जम्बूद्वीपधातकीखण्डपुष्करार्धान्यर्धतृतीया द्वीपाः; लवणकालोदौ समुद्रव्यम्। जम्बद्वीप एको धातकीखण्डे द्वौ, पुष्करार्धे च द्वावेव पश्च मन्दराः जम्बूद्वीपे भरतादीनि सप्त धातकीषण्डे चतुर्दश, पुष्करार्धे चतुर्दशैवं पञ्चत्रिंशत क्षेत्राणि; जम्बूद्वीपे षट्, धातकीखण्डे द्वादश,पुष्करार्धे द्वादशैवं त्रिंशद् वर्षधरपर्वता:जम्बूद्वीपे एकः, धातकीखण्डे द्वौ, पुष्करार्धे द्वावेवं पञ्च देवकुरवः, एवमेव पश्चात्तराः कुरवः जम्बूद्वीपेद्वात्रिंशत्, धातकीखण्डे चतु:पष्टिः, पुष्करार्धे चतुःषष्टिश्चैवं षष्टयधिकं शतं चक्रवर्तिविजयानाम्; पञ्चसु भरतेषु पञ्चसु चैरावतेषु प्रत्येकं पञ्चविंशतिर्जनपदा अर्ध चार्याः एते दशगुणा द्वे शते पञ्चपञ्चाशदधिके जनपदानामार्याणाम्; जम्बूद्वीप एव हिमवतः प्राक् पश्चाद् विदिक्षु सप्त सप्तान्तरद्वीपा एकत्राष्टाविंशतिस्तथा शिखरिणोऽप्यष्टाविंशतिरेवमेते षट्पश्चाशद् भवन्ति । उत्सेधाङ्गुलं सहस्रगुणितं प्रमाणाङ्गुलं भवति, तदनुमानेन चैषां द्वीप-क्षेत्र-गिरि-कूट-सरित्-सागर-काण्ड-पातालभवनकल्पविमानादीनां विष्कम्भायामपरिधयो ग्राह्याः। क्षेत्रादीनि च यथावत्परिमाणतो ज्ञात्वा तत्प्रत्ययाथे सङ्ख्यानमुक्तम्, तच्च गणितग्रन्थेभ्यः साक्षात् सम्बन्धिफलत्वादव्यभिचारि प्रत्येतव्यम्, यैश्च क्षेत्रादिपरिमाणं सङ्ख्यातं तैरवश्यं सङ्ख्यानशास्त्रं प्रमाणेयम्, प्रमेयपदार्थप्रणयने प्रमाणप्रणयनवत्, यद्यपि चेयत्ता आगममात्रप्रतिपाद्या तथाऽनु तदन्यैरपि सङ्ख्यातं तत्सङ्ख्यानलक्षणं तु नोक्तम्, यदप्युक्तम् तदपि क्षेत्रपरिक्षेपादि व्यभिचरति, सर्वभुवनकोशादिप्रक्रियान्तःपाति प्रदश्य, प्रायश्च सावर्णिसांशपायनबुद्धादयः सातिशयज्योतिषक्षेत्रगणितशास्त्रानभिज्ञास्तेषामविषय एवायम् । यदि नाम मूढतया कश्चिदभिनिविशेत्, स तु प्रतिवृत्तफलकसूत्रदीपच्छायादिभिः प्रत्ययैःप्रत्याय्यः, यस्येयान् विष्कम्भस्तस्य परिक्षेपः कियान् भवतीति सङ्ख्याननियमात् , पूर्वापराविरोधि प्रत्यक्षफलं च सङ्ख्यानम्, अतः सर्वज्ञज्ञानविषयाभ्यन्तरत्वात् ज्ञानातिशयत्वाच्च महातडागोदरसंस्थितजलद्रव्यपलपरिमाणपरिज्ञानोपायोपदेशवत् तीर्थकरैः सर्वमिदमनवद्यमादर्शितं सर्वज्ञतालाञ्छनमिति ॥ १३ ॥
-भा०-अत्राह-उक्तं भवता-मानुषस्य स्वभावमार्दवार्जवत्वं च ( अ०६, सू०१८) इति । तत्र के मनुष्याः क वेति ? । अत्रोच्यते
टी०-अत्राह-उक्तं भवतेत्यादि पातनिकाग्रन्थः । सूत्रेयूक्तमाश्रवप्रस्तावे पष्ठेऽध्याये(सू०१८) स्वभावमार्दवार्जवं च मानुषस्यति, तत्र के मनुष्या आर्यादिभेदेन केन व्यवस्थिताः क वा द्वीपक्षेत्रे समुद्रे वा ? । अत्रोच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org