________________
सूत्र ११] स्वोपज्ञभाष्य-टीकालङ्कृतम् .
२५७ भा०--विष्कम्भेणैकादश योजनसहस्राण्यष्टौ च शतानि द्विचत्वारिंशानि
द्वौ च भागौ । एवमेवोत्तरेणोत्तराः कुरवः चित्रकूटविचित्रउत्तरकुरुवि कूटहीना द्वाभ्यां च काश्चनाभ्यामेव यमकपर्वताभ्यां विराजिताः ।।
विदेहा मन्द्रदेवकुरुत्तरकुरुभिर्विभक्ताः क्षेत्रान्तरवद् भवन्तिपूर्वे चापरे च । पूर्वेषु षोडश चक्रवर्तिविजया नदीपर्वतविभक्ताः परस्परस्यागमाः, अपरेऽप्येवंलक्षणाः षोडशैव । तुल्यायामविष्कम्भावगाहोच्छायौ दक्षिणोत्तरौ वैताढ्यौ, तथा हिमवच्छिखरिणी महाहिमवद्रुक्मिणौ निषधनीलौ चेति ॥
टी०-विष्कम्भेणेत्यादि सुज्ञानम् । इदानीमुत्तरकुरूनतिदिशति-एवमेवोत्तरेणोत्तराः कुरवः काञ्चनकनगशतेनोपशोभिताः, किन्तु चित्रविचित्रकूटाभ्यां हीनास्तस्थाने च काश्चनाभ्यां तत्प्रमाणाभ्यामेव यमकपर्वताभ्यां शीतानदीकूलगाभ्यां विराजिता इति ॥ विदेहा इत्यादि । मन्दरगिरिणा देवकुरूत्तरकुरुभिश्च विभक्ता व्यवच्छिन्नमर्यादाः स्थापिताः,एकक्षेत्रान्तःपातिनोऽपि क्षेत्रान्तरवद् भवन्ति। तत्रत्यमनुष्यादीनां परस्परेण गमनागमनाभावात् । अतः पूर्वे चापरे च उभये विदेहा भवन्ति, मेरोः पूर्वतः पूर्वे, अपरतोऽपरे, तत्र पूर्वेषु विदेहेषु षोडश चक्रवर्तिविजया नदीपर्वतविभक्ताः परस्परस्यागमाः चक्रवर्तिनां विजेतव्या भोक्तव्याश्च, नदीभिर्गिरिभिश्च विभक्ताः परस्परेणागम्याः क्षेत्रविशेषा इत्यर्थः । अधुनाऽपरानप्यतिदिशति-अपरेऽप्येवंलक्षणाः षोडशैव चक्रवर्तिविजयाः सरिगिरिविभक्ताः परस्परासम्भाव्यमानगमना इति । अधुनोत्तरभागवर्तिपर्वतान् प्रमाणतो निर्दिशति-तुल्यायामेत्यादि भाष्यमेव सुज्ञानम् । भा०-क्षुद्रमन्दरास्तु चत्वारोऽपि धातकीषण्डपुष्करार्धकाः महामन्दरात
पञ्चदशभिर्योजनसहीनोच्छायाः । षड्भिर्योजनशतैर्धरणिक्षुद्रमन्दर
तले हीनविष्कम्भाः । तेषां प्रथम काण्डं महामन्दरतुल्यम् ।
द्वितीयं सप्तभि_नम् । तृतीयमष्टाभिः। भद्रशालनन्दनवने महामन्दवत् । अर्धेषट्पञ्चाशदू योजनसहस्राणि सौमनसं पञ्चशंतविस्तृतमेव । ततोऽष्टाविंशतिसहस्राणि पाण्डुकं चतुर्नवतिचतुःशतविस्तृतमेव भवति । उपरि चाधश्च विष्कम्भोऽवगाहश्च तुल्यो महामन्दरेण । चूलिका चेति ॥
टी०-क्षुद्रमन्दरास्त्वित्यादि ॥ धातकीपण्डे द्वौ पुष्करद्वीपार्धे द्वौ इत्येवं चत्वारोऽपि क्षुल्लकमन्दरा भवन्ति जम्बूद्वीपमध्यवर्तिमेरोहीनप्रमाणत्वात् । तचादर्शयतिमहामन्दरात् पश्चदशभिर्योजनसहरॆहीनोच्छाया:-चतुरशीतियोजनसहस्रोच्छिताः । तथा षड्भिर्योजनशतैर्धरणितले हीनविष्कम्भाः चतुःशताधिकनवसहस्र
स्वरूपम्
१.स्परागमाः' इति घ-पाठः । २'शतं विस्तृतम्' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org