________________
२५८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ३ विष्कम्भा इत्यर्थः । तेषां चतुर्णामपि प्रथमं काण्डं महामन्दरतुल्यं धरणिमवगाढं सहस्रप्रमाणमित्यर्थः। द्वितीयं काण्डं सप्तभिः सहस्रैर्दीनं मन्दरात् षट्रपश्चाशत्सहस्रप्रमाणमित्यर्थः । तृतीयं काण्डमष्टाभिः सहस्रीनं, मेरोः सकाशात् अष्टाविंशतिसहस्रप्रमाणमित्यर्थः । भद्रशालनन्दनवने महामन्दरे इव द्रष्टव्ये, धरण्यां भद्रशालवनम्, तदुपरि पञ्चशत्यां नन्दनमिति, तत उपरि अर्धेषट्पञ्चाशत्सहस्राण्यारुह्य सौमनसम् , पश्च शतानि नन्दनवनेनाक्षिप्तानि द्वितीयकाण्डस्यातोऽर्धषट्पञ्चाशत्सहस्राणि गत्वा तत् पञ्चशतविस्तीर्णमेव भवति । ततोऽष्टाविंशतिसहस्राण्यारुह्य पाण्डुकवनं चतुवतिचतुःशतविस्तीर्णमेवावसेयम्, तथोपरि चाधश्च विष्कम्भोऽवगाहश्च तुल्यो महामन्दरेण यथासङ्ख्यमत्राभिसम्बन्धः, उपरि मस्तके यो विष्कम्भः स महामन्दरेणैषां तुल्यः, सहस्रप्रमाण इत्यर्थः, अधश्च योऽवगाहः सोऽपि महामन्दरेण तुल्यः, योजनसहस्रमानः, एषां भवति । चूलिका चैषां महामन्दरचूडासदृशी. प्रमाणतोऽवसातव्येति । अधुना लाघवार्थ द्वीपादीनां परिधिगणितपदजीवाद्यानयनाय करणोपाया भण्यन्ते । तत्रेप्सितवृत्तक्षेत्रपरिधेरानयनायेदं करणसूत्रम्: भा०-विष्कम्भकृतेर्दशगुणाया मूलं वृत्तपरिक्षेपः, स विष्कम्भपादाभ्यस्तो
गणितम् । इच्छावगाहोनावगाहाभ्यस्तस्य विष्कम्भस्य चतुपरिध्यानयनादिकरणम् नयना गुणस्य मूलं ज्या । ज्याविष्कम्भयोर्वर्गविशेषमूलं विष्कम्भा
- च्छोध्यं शेषामिषुः । इषुवर्गस्य षड्गुणस्य ज्यावर्गयुतस्य मूलं धनुःकाष्ठम् । ज्यावर्गचतुर्भागयुक्तमिषुवर्गमिषुविभक्तं तत्प्रतिकृतिवृत्तविष्कम्भः । उदग्धनुःकाष्ठादू दक्षिण शोध्यं शेषाधू बाहुरिति । अनेन करणाभ्युपायेन क्षेत्राणां वैताठ्यादिपर्वतानामायामविष्कम्भज्येषुधनुःकाष्ठपरिमाणानि ज्ञातव्यानि ॥११॥
टी-विष्कम्भकृतेर्दशगुणाया मूलं वृत्तपरिक्षेपः, विष्कम्भो योजनशतसहसं तल्लक्षगुणं, कृतिः वर्गो भवति, पुनर्दशगुणा क्रियते, पश्चान्मूलमानीयते, तद् वृत्तक्षेत्रपरिक्षेपः, तत्र योजनराशौ लब्धव्ये त्र्येकषद्विद्विकसप्तकैः क्रमेण मूलमानेतव्यम्, ततोऽयं राशिरवस्तात् जातः ६३२४५४ । एषोऽर्धेन छिन्नो योजनविलक्षषोडशसहस्रसप्तविंशद्विशतसङ्ख्यो भवति, शेषमुपरीदं ४८४४७१ चतुर्भिर्गुण्यते, चतुर्गव्यूतं योजनं यतः, ततो गव्यूतराशिर्भवति । षडादिराशिना भागो हार्यः, लब्धमिदं गव्यूतत्रयं शेषमुपरीदं ४०५२२ । धनुःसहस्रद्वयेन गुण्यते जातः ततो धनुराशिः । षडादिराशिना भागलब्धमिदं
१'कृतस्य ' इत्यधिको घ-पाठः। २' सर्वक्षेत्राणां सर्वपर्वता.' इति घ-पाठः । ३ (१९३७८८४)। ४ ' यतस्ततो ' इति पाठः । ५ (८१०४४०००)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org