SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २५६ भरतस्य ज्यामानादि तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ३ विदेहक्षेत्रेषुरर्धहीनो नीलेषुर्भवति, सोऽर्धहीनोरम्यकेषुरित्येवं यावदैरावतक्षेत्रमिति ॥ अधुनैषां हिमवदादिकुलपर्वतानां अवगाहोच्छ्यान् प्रतिपादयतिहिमवदादीनां भा०–पञ्चविंशतियोजनान्यवगाढो योजनशतोच्छ्यो हिमानम् मिवान् । तद्विमहाहिमवान् । तद्विर्निषध इति ॥ टी०-पञ्चविंशतीत्यादि उच्छायचतुर्भागोऽवगाहः सर्वेषाम्, उच्छायो योजनशतं अवगाहः पञ्चविंशतिर्योजनानि हिमवतः । एतदेव द्विगुणमुच्छ्यावगाहप्रमाणं महाहिमवतः, योजनशतद्वयमुच्छ्यः पञ्चाशदवगाहः । एतदद्विगुणं निषधस्य, चत्वारि शतान्युच्छायः शतमवगाह इति । नीलादीनां निषधादिवदुच्छ्यावगाहाविति ॥ इदानीं जीवाधनुःकाष्ठे कथयति भा०--भरतवंशस्य योजनानां चतुर्दश सहस्राणि चत्वारि शतान्येकसप्ततीनि च षड्भागा विशेषोना (१४४७१,६) ज्या । इघुर्यथोक्तो (५२६,६, विष्कम्भः, धनुःकाष्ठं चतुर्दश सहस्राणि शतानि पश्चाष्टाविंशानि एकादश च भागाः साधिकाः(१४५२८३१) । टी०-भरतवंशस्येत्यादि भाष्यम् । हिमवत आराद्भागवर्तिनी जीवेयं प्रतिपत्तव्या, धनुःकाष्ठं च, इषुर्यथोक्तो विष्कम्भ इति प्रागभिहितोऽपि पुनरिहोपन्यस्तः इषुरिति, तत्रैवं नोक्तस्तस्मात् पुनरुपन्यास इति । भा०-भरतक्षेत्रमध्ये पूर्वापरायत उभयतः समुद्रमवगाढो वैताठ्यपर्वतः षडू योजनानि सक्रोशानि धरणिमवगाढः पश्चाशद् विस्तरतः वैतात्यो देवकुरवश्च - पञ्चविंशत्युच्छितः ॥ विदेहेषु निषधस्योत्तरतो मन्दरस्य दक्षि णतः काञ्चनपर्वतशतेन चित्रकूटेन विचित्रकूटेन चोपशोभिता देवकुरवः। _टी०-भरतक्षेत्रमध्य इत्यादि । वैताढ्यपर्वतो दक्षिणोत्तरार्धविभागकारी विद्याधराधिवासः पञ्चाशत्पष्टिनगरयुक्तदक्षिणोत्तरश्रेणिद्वयालंकृतो गुहाद्वयोपशोभितश्च प्रतिपत्तव्यः । विदेहेष्वित्यादि । मेरुगिरेर्दक्षिणतो निषधस्योत्तरतो देवकुरबो भवन्ति, ते च काञ्चनपर्वतकशतेनोपशोभिताः हृदपञ्चकोभयपर्यन्तव्यवस्थितैर्दशभिर्दशभिः काञ्चनपर्वतैर्विभूषिताः, शीतोदानदीपूर्वापरगौ निषधाच्चतुस्त्रिंशाष्टशतसचतुःसप्तभागान्तरौ चित्रविचित्रकूटौ योजनसहस्रोचौ तावदधोविस्तृतौ तदर्धमुपरि ताभ्यां चोपशोभिता देवकुरवः । ते च १०तवर्ष' इति घ-पाठः । २ 'विशेषतो' इति घ-पाठः ।। क्रोशाः = १ योजनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy