________________
स्वोपज्ञभाष्य-टीकालङ्कृतम्
अथैषां भरतादिक्षेत्राणां किंकृतो विभाग इत्याह
सूत्रम् - तद्विभाजिनः पूर्वापरायता हिमवन्- महाहिमवन्- निषध-नीलरुक्मिशिखरिणो वंशधर पर्वताः ॥ ३-११ ॥
टी० - तानि विभक्तुं शीलमेषामिति तद्विभाजिनोऽकृत्रिमसन्निवेशित्वात् तच्छीलाः, पूर्वापरायता इत्युभयतो लवणजलधिमवगाढाः हिमवदादिसंज्ञानिर्देशः, वंशा वर्षा वा क्षेत्राणि तेषां धारकाः - विशिष्टव्यवच्छेदकारिणो गिरयोऽनादिकालव्यवस्थानाः ।
भा०-- तेषां वर्षाणां विभक्तारः हिमवान् महाहिमवान् निषधो नीलो रुक्मी शिखरीत्येते षड् वर्षधराः पर्वताः । भरतस्य हैमवतस्य च विभक्ता हिमवान् । हैमवतस्य हरिवर्षस्य च विभक्ता महाहिमवान, हिमवदादिवर्ष- इत्येवं शेषाः ॥ तत्र पञ्च योजनशतानि षड्विंशानि षट् चैकोनविंशतिभागा (५२६६९ ) भरतविष्कम्भः । स द्विद्विर्हिमवद्वैमवतादीनामाविदेहेभ्यः । परतो विदेहेभ्योऽघर्षहीनाः ॥
धरस्वरूपम्
टी० -- तेषां वर्षाणामित्यादि भाष्यं प्रायो गतार्थम्, कथं पुनरमी वंशधरपर्वता इत्यादर्शयति — भरतस्य हैमवतस्य च विभक्ता हिमवान् । तन्मध्यव्यवस्थितत्वाद् भारहैमवतयोर्विभागमापादयति हिमवान् । तथा हैमवत हरिवंशयोर्व्यवस्थाकारी महाहिमवान् । इत्येवं शेषगिरयो ऽपि नामग्राहं वक्तव्या इत्यतिदिशति, हरिवंश विदेहयोर्विभक्ता निषधः, विदेहरम्यकयोर्विभक्ता नीलः, रम्यकहैरण्यवतयोर्विभक्ता रुक्मी, हैरण्यवतैरावतयोर्विभक्ता शिखरीति ॥ अधुनैषां क्षेत्राणां विभागे सति प्रमाणमाख्याति तत्र भरत क्षेत्रमारोपितचापाकारम्, अतः प्राणिषोरेव प्रमाणमुच्यते-पञ्च योजनशतानि पइविंशत्यधिकानि षट् चैकोनविंशतिभागा योजनस्य भरतक्षेत्र विष्कम्भः । अपरे त्विदमेव भाष्यवाक्यं सूत्रीकृत्याधीयते । विष्कम्भत इति मध्यप्रदेशे भवति, एवमैरावतक्षेत्र विष्कम्भोऽपि । हिमवदादिपर्वतानां शेषक्षेत्राणां चैवमतिदिशन्नाह से द्विद्विर्हिमवद्वैमवतादीनामाविदेहेभ्य इति, तद्यथा - हिमवच्छिखरिपोर्योजन सहस्रं द्वयुत्तरपञ्चाशताधिक द्वादश चैकोनविंशतिभागा योजनस्य, हैमवत हैरण्यवतयोः सहस्रद्वयं शतं च पश्चोत्तरं पञ्च चैकोनविंशतिभागा योजनस्य, महाहिमवद् रुक्मिणोश्चत्वारि सहस्राणि शतद्वयं दशोत्तरं दश चैकोनविंशतिभागा योजनस्य, हरिरम्यकयोरष्टौ सहस्राणि चत्वारि शतान्येकविंशत्यधिकानि एक कोनविंशतिभागो योजनस्य, निषधनीलयोः षोडश सहस्राण्यष्टौ शतानि द्वयुत्तरचत्वारिंशताधिकानि द्वौ चैकोनविंशतिभागौ योजनस्य, विदेहानां त्रयस्त्रिंशत्सहस्राणि षट् च शतानि चतुरशीत्यधिकानि चत्वारश्चैकोनविंशतिभागा योजनस्येति । परतो विदेहेभ्योऽर्धहीना इति । नीलादीनां प्रमाणमाचष्टे लाघविक आचार्य:
सूत्र ११ ]
१ ‘वर्षधर०' इति घ-पाठः । २ 'स भरतेषुर्द्विगुणो द्विगुणः पर्वतानां क्षेत्राणां विष्कम्भो भवत्याविदेहेभ्य इति गन्टी-पाठः ।
Jain Education International
२५५
For Private & Personal Use Only
www.jainelibrary.org