________________
२५४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ३ भा०-सर्वेषां चैषां व्यवहारनयापेक्षादादित्यकृताद् दिगनियमादुत्तरतो मेरुर्भवति ।
टी.-सर्वेषामित्यादि भाष्यम् । सर्वक्षेत्राणां चैषां भरतादीनामैरावतपर्यन्तानां व्यवहारनयापेक्षादादित्यकृताद् दिगनियमादुत्तरतो मेरुर्भवति । व्यवहारो हि सङ्ग्रहीतानां पदाथोनां विधिपूर्वकमवहरणं, लोकप्रसिद्धव्यवहारतत्परत्वात, न खलु निश्चयमवलम्बते, सर्वव्यवहारोच्छेदप्रसङ्गात् । तथा चाह-"असत्योपाधि यत् सत्यं, तद्वच्छब्दनिबन्धनम्" इति, शुक्ला बलाका कृष्णो भ्रमर इत्येवमादिप्रसिद्धिवशव्यवस्थितमेव वस्तु प्रतिजानीतेऽस्तीति ॥ तमेवंविधव्यवहारनयमपेक्षते यो दिमियमः सवितृगतिजनितस्तस्माद् दिग्नियमात् सर्वेषामुत्तरतो मेरुदक्षिणतश्च लवणजलनिधिरिति । न पुनर्नैश्चयिकदिग्व्यवस्थासमासादनेनेदमुच्यते, किन्तु यस्मिन् क्षेत्रे यत्रादित्य उदेति सा दिक् प्राची, यस्यामस्तमेति सोऽऽशा प्रतीची, कर्कटकादिराशीन् धनुर्धरान्तान् यत्र व्यवस्थितश्चरति क्रमेण सा दक्षिणा, तथा मकरादीन् मिथुनान्तान् यत्र स्थितश्चरति सोत्तरा दिगिति,तथाऽन्तरालदिशि(शः) एतत्संयोगाद्वाच्याः । तथोवेमधश्च। सवित्रपेक्षैव दिग् व्यवह्रियत इति व्यावहारिकी सर्वेषां दिग् भवति । कथं पुनव्र्यवहारमात्रमेवेदं निरपेक्षमिति ? । उच्यते यतोऽस्माकं यत्रादित्य उदेति सा प्राची, सैव च पूर्वविदेहकानां प्रतीची, तत्रादित्यस्यास्तमितत्वाद्, विप्रतिषिद्धं चेदम्, एवमन्यास्वपि योज्यम्, तस्माद् व्यवहारमात्रमिदं, न निश्चय इति । अथ नैश्चयिकी दिक् कथं प्रतिपत्तव्येत्यत आहनैश्चयिकाटिगो- भा०-लोकमध्यावस्थितं त्वष्टप्रदेशं रुचकं दिग्नियमहेतुं क्षया व्यवस्था प्रतीत्य यथासम्भवं भवतीति ॥ १० ॥
टी०-लोकमध्यावस्थितमित्यादि । तिर्यग्लोकमध्यावस्थितः समतलभूभागमेरुव्यवस्थितो वियत्प्रदेशाष्टकनिर्माणो रुचकश्चतुरस्राकृतिः । स किल दिशामैन्द्रयादीनां विदिशां चाग्नेयादीनां प्रभवः, तत्र दिशो द्विप्रदेशादिकाः प्रदेशद्वयोत्तरवृद्धया वर्धमाना महाशकटोद्धिसंस्थानाः सादिका विगतपर्यवसाना नभोदेशैरनन्तैर्विशिष्टाकृतिलब्धव्यवस्थानैर्जेनितस्वरूपाश्चतस्रः, विदिशस्तु मुक्तावलीसन्निभा एकैकाकाशदेशरचनाहितस्वरूपाः सादिकाश्चापर्यवसिताश्वानन्तप्रदेशाश्चतस्र एव,उपरिष्टात्तानेव चतुरः प्रदेशानवधीकृत्योपरिस्थितचतुःप्रदेशादिकाऽनुत्तरा विमला नाम दिग्भवति, तथाऽधस्तात् तमोऽभिधानाऽधस्तनाकाशप्रदेशचतुष्टयप्रवहेति। एताश्चानादिकालसन्निवेशिन्यस्तथाऽनादिकालप्रसिद्धनामानो निश्चयनयावलम्बनात् प्रतिपत्तव्याः । न तदङ्गीकरणेनोत्तरतो मेरुरुच्यत इति । अतस्तमेवंविधं रुचकं दिनियमहेतुं प्रतीत्य यथासम्भवं-येन प्रकारेण यस्याः सम्भवो द्विप्रदेशादिकेन द्वयुत्तरादिना एकप्रदेशादिना चानुत्तरेण तथा चतुःप्रदेशादिनाऽनुत्तरेणैव यथासम्भवं भवतीत्युच्यत इति ॥१०॥
१'सा प्रतीचा' इति क-पाठः। २'चाट.' इति घ-पाठः । ३ 'स्थितांश्च०' इति ग पाठः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org