________________
सूत्रं १० ]
स्वोपज्ञभाष्य—टीकालङ्कृतम्
२५३
कानि नव चैकादशभागा योजनस्य । एतन्नन्दनवनान्तर्विष्कम्भादपास्य शेषमुपरि सौमनसेऽन्तर्विष्कम्भो लभ्यते । स चायम् - त्रीणि सहस्राणि शतद्वयं च द्विसप्तत्यधिकमष्टौ चैकादशभागा योजनस्येति । अस्मिन्नेव सौमनसान्तर्विष्कम्भे सौमनसवनचक्रवालविष्कम्भं पञ्च[विं]शतिकं द्विगुणं निधाय बहिर्विष्कम्भो लभ्यते, स चायम् - चत्वारि सहस्राणि द्वे शते युतरसप्तत्यधिके अष्टौ चैकादशभागा इति । इदानीं सौमनसवनादारुह्योपरि षट्त्रिंशद्योजनसहस्राणि पाण्डकवनं भवति । तस्य च विष्कम्भो योजनसहस्रम् सौमनसवनाद् योजनमारुह्य aisyear भवतीति नाभिहितः । स चायमपचयो गणितधर्मेण भवति - यदि योजनमेकमा - रुह्य योजनस्य षण्णव तित्रिशतभागाः पञ्चविंशतिक्षयः (१) सर्वतस्ततः षट् त्रिंशद् योजन सहस्राण्यारुह्य कोऽपचयो भवेदिति ? लब्धं सहस्रत्रयं शतद्वयं च द्वयुत्तरसप्तत्यधिकं योजनैकादशभागाश्राष्टौ । एतत् सौमनसवनाभ्यन्तर विष्कम्भादपास्यं स्यात्, शेषमुपरि पाण्डुकवनस्य वृत्तविकम्भो योजनसहस्रमिति ॥ ९ ॥
स एवंविधो जम्बूद्वीपः सप्तक्षेत्रात्मको बोद्धव्यः । तानि चामूनि - सूत्रम् — तत्र भरत - हैमवत- हरि - विदेह - रम्यक हैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ ३-१० ॥
भा०-तत्र जम्बूद्वीपे भैरतहैमवतहरयो विदेहाः रम्यकहैरण्यवतमैरावतमिति वंशाः क्षेत्राणि भवन्ति । भरतस्योत्तरतः हैमवतम् । हैमवतस्योत्तरतः हरयः । इत्येवं शेषाः । वंशा वर्षा वास्या इति चैषां गुणतः पर्यायनामानि भवन्ति ।
भरतादिक्षेत्रस्वरूपम्
टी०- - तत्र जम्बूद्वीप इत्यादि भाष्यम् । तत्रोक्तलक्षणे, जम्बूद्वीप इत्यनेनैतद् दर्शयतिन द्वीपान्तराण्येतानि भरतादीनि, किन्तु जम्बुद्वीपस्यैवैकस्य विशिष्टावधिका विभागा इति, जगतः स्थितेरनादित्वात् संज्ञामात्रम् भरतदेवनिवाससम्बन्धाद् वा भरतं भारतं वा, हिमवतोदूरभवत्वाद हैमवतम्, हरयो विदेहाथ पञ्चालतुल्याः, रम्यकमिति संज्ञायां कनू, हैरण्यवत हैरण्यवतदेव निवास सम्बन्धाद, तथैरावतमपीति । एवमेते सप्त वंशा वर्षाः क्षेत्राणीत्यनर्थातरत्वं दर्शयति ।। अधुना विशिष्टक्रमसन्निवेश प्रदर्शनाभिधित्सया आह - भरतस्योत्तरतो हैमवतमित्यादि गतार्थं प्रायः । वंशादीनि गुणतः पर्यायनामानि भवन्तीति । वंशाः किल पर्ववन्तो भवन्ति तद्वत् पर्वभागविभजनाद् वंशा एवामी भरतादयः, वर्षसन्निधानाच्च वर्षाः, मनुजादिनिवासाच्च वास्याः ।
८
८
१ ३२७२८८। २ ४२७२८८। ३ ३२७२८६ । ४ 'भरतं हैमवतं हरयो' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org