________________
२५२
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ३ प्रथममेखलायां तावत्प्रतिक्रान्तिविस्तृतं तावती चासौ प्रतिक्रान्तिश्च तावत्प्रतिक्रान्तिः, विस्तारः पञ्चयोजनशतप्रमाण एव, तावत्प्रतिक्रान्त्या विस्तृतमेवंप्रकारेण विस्तीर्णमित्यर्थः । तच्च द्वितीयं वनं नन्दनं नाम । ततोऽर्धत्रिषष्टीत्यादि । त्रिषष्टिसहस्रसङ्ख्यापूरणस्य योजनसहस्रार्धन युक्ता सङख्यात्रिषष्टिरुच्यते । अत्र पञ्च योजनशतानि द्वितीयकाण्डप्रमाणादाक्षिप्तानि नन्दनवनेनेत्यतोऽर्धत्रिषष्टिसहस्राण्यारुह्योपरि । पञ्चयोजनशतविस्तीर्णमेव द्वितीयमेखलायां सौमनसं वनं तृतीयं भवति । ततोऽप्युपरि षत्रिंशत् सहस्राण्यारुह्य चतुर्नवत्युत्तरैश्चतुर्भिर्योजनशतैर्विस्तीर्ण पाण्डुकं नाम वन मेरोः शिरसि तुर्यमवसेयम् । अयं च मेरुगिरिने सर्वत्र समप्रमाणप्रवृद्धः, किन्तु प्रदेशपरिहाण्या परिहीयमानः प्रवृद्ध इति । तद् दर्शयति-नन्दनसौमनसाभ्यामित्यादि । नन्दनावं सौमनसाच्चाधः किल मध्य एकादशैकादश योजनसहस्राण्यारुह्य योजनसहस्रं परिहीयते विष्कम्भस्येति, ऊर्ध्व सौमनसानन्दनवनाच्चाधो न सूरिणा परिहाणिरुक्ता । प्रदेशपरिहाणिग्रहणमगुलादिप्र(सिद्धयर्थमङ्गलादिष्वप्ययमेव परिहाणि विधिरिति । एषा च परिहाणिराचार्योक्ता न मनागपि गणितप्रक्रिययो सङ्गच्छते , यतः सौमनसवनेऽन्तर्विष्कम्भः सहस्रत्रयं शतद्वयं द्विसप्तत्यधिकमष्टौ चैकादशभागाः , बहिर्विष्कम्भः पुनः सहस्रचतुष्टयं शतद्वयं च द्विसप्तत्यधिकमष्टौ चैकादशभागा योजनस्य । तत्राचार्योक्तपरिहाण्या नैकोऽपि विष्कम्भ आगच्छति, न चैतावत्या चा ( सत्यावा ) गमेऽधीतत्वाच्छृङ्गग्राहिकयेति । गणितशास्त्रविदो हि परिहाणिमन्यथा वर्णयन्त्यार्षानुसारिणः । मेरोर्योजनान्यूर्ध्वमेका लक्षा, तत्राधो भूमावदृश्यं योजनसहस्रमपचयरहितं,सर्वत्र च वृत्तविष्कम्भो योजनसहस्राणि दश,यद् दृश्यं तत्र परिहाणिः,भद्रशालवनादूर्ध्व पञ्च योजनशतान्यारुह्य सर्वतश्च पञ्चयोजनशतान्यन्तः प्रविश्य नन्दनवनं भवति । तत्र वने मेरोरन्तर्बहिर्वा कीय विष्कम्भ इति,तत्रेदं कर्म त्रैराशिकभङ्गया-यदि योजनमेकमारुह्योपरि वृत्तक्षेत्रेऽपचयः सर्वत्रैकादशभागो योजनस्य ततः पञ्च योजनशतान्यारुह्य कोऽपचयः स्यात् । लब्धं पेञ्चचत्वारिंशद् योजनानि पञ्च चैकादशभागा योजनस्य,एतदधस्तनवृत्तदशसहस्रविष्कम्भादपास्य शेषमुपरि विष्कम्भो नन्दनवने बहिर्लभ्यत इति, स चायम्-नव सहस्राणि नव शतानि चतुःपञ्चाशदधिकानि षट् चैकादशभागाः योजनस्य । अस्माच्च बहिविष्कम्भात सर्वतो नन्दनवनचक्रवालविष्कम्भं पञ्चशतिकंद्विगुणमपास्यान्तर्विष्कम्भोऽयं नन्दनवन एव भवति-अष्टो सहस्राणि नव शतानि चतुःपञ्चाशदधिकानि षट् चैकादशभागाः। इदानीं नन्दनवनादुपरि योजनसहस्राण्यर्धत्रिषष्टिरा(मा)रुह्य को मेरुविष्कम्भो बहिर्भवति ? अत्रापि तदेव कर्म, यदि योजनमारुह्य वृत्तविष्कम्भे सर्वतोऽपचयो योजनस्यैकादशभागस्तत आरुह्यार्धत्रिषष्टिः(ष्टिं)योजनसहस्राणि कोऽपचयो भवेदिति? लब्धं पञ्च सहस्राणि षट् शतान्येकाशीत्यधि
१ 'चाधोधो म' इति क-पाठः । २ ‘प्रत्ययया' इति क-पाठः। ३ ३२७२६, ४ ४२७२६, ५ ४५६, ६ ९९५४ ।। ७ ८९५४६, ८ ५६८१३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org