________________
सूत्रं ८] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२४९ नामानि, नाशुभान्यपीति, अस्मिन् पक्षे सङ्ख्योन्नेया । द्वीपादनन्तरः समुद्रः समुद्रादनन्तरो द्वीपः इत्यनेनैतत् कथयति-नासङ्ख्येयसकलद्वीपपरिसमाप्तौ जातायां पश्चालवणादयः समुद्राः, किन्तु प्राक तावद् द्वीपः पश्चात् समुद्रोऽनन्तरः पुनीपः पुनः समुद्र इत्येवमास्वयम्भूरमणसमुद्रादिति ॥ एतदेव विवृणोति यथासङख्यमित्यादिना भाष्येण
भा०-यथासङ्ख्यम् । तद्यथा--जम्बूद्वीपो बीपः। लवद्वीपसमुद्र
- णोदः समुद्रः । धातकीखण्डो द्वीपः । कालोदः समुद्रः । नामानि
पुष्करवरो द्वीपः। पुष्करोदः समुद्रः । वरुणवरो द्वीपः । वरुणोदः समुद्रः । क्षीरवरो द्वीपः । क्षीरोदः समुद्रः। घृतवरो द्वीपः । घृतोदः समुद्रः । इक्षुवरो द्वीपः । इक्षुवरोदः समुद्रः । नन्दीश्वरो द्वीपः। नन्दीश्वरोदः समुद्रः । अरुणवरो द्वीपः । अरुणवरोदः समुद्रः । इत्येवमसङ्ख्येया द्वीपसमुद्राः स्वयम्भूरमणपर्यन्ता वेदितव्या इति ॥७॥ ___टी०-लवणोद इति, "संज्ञायामुत्तरपदस्य" (परिभाषे) इति वचनादुदभावः, शेष सुज्ञानम् । पर्यन्ते उपसंहरति, न खलु शक्यन्ते नामग्राहमाख्यातुमसङ्ख्येयत्वादत एवंप्रकारा द्वीपाः समुद्राश्चासंख्येयाः स्वयम्भूरमणसमुद्रपर्यन्ता वेदितव्याः । सर्वे चैतज्जम्बूद्वीपादिसमुद्रद्वीपवलयजालमस्यामेव रत्नप्रभापृथिव्यामवस्थितमवसेयम्, एतावांश्च तिर्यग्लोकः न ततः परम्, अधोलोकादि विभागतश्वेह लोकोऽपदिश्यते साकल्येन सर्वज्ञ ज्ञानविषयत्वात् । सर्वे हि ज्ञेयं ज्ञातव्यं सर्वज्ञेनोपदेष्टव्यं च चरित्रोपयोगि श्रद्धानलक्षणसम्यग्दर्शनविषयतया च निरवशेष मुक्तिमार्गाङ्गतया, तथातिशयज्ञानविभूतिलाञ्छितत्वाच सवोतीन्द्रियाणां पदार्थानां सुप्रत्ययितपुरुषप्रत्यक्षेक्षितजनपदव्यवहारप्रतिपत्तिवत् सर्व सुश्रद्धानमित्यवेत्य मुक्तसंशयं प्रतिपत्तव्यम्, ज्योतिषनिमित्तगणितशास्त्राणां सर्वज्ञलाञ्छनत्वात् ध्यानप्रक्रियायां च लोकसनिवेशविशेषजीवोत्पादादिचिन्तनमुपदिष्टमतो यदभिदधते बालिशाः कुतर्कपटप्रसारणपटवो बटवः, क्लेशादिप्रहाणोपायोपदेशबहिर्भूतोद्वीपसमुद्रादिसनिवेशोपदेशो मुमुक्षोरनुपदेशा(श्यः अ)युज्यमानत्वात्, तदपास्तमवसातव्यमिति ॥ ७॥ ___एते चानन्तरसूत्रनिर्दिष्टा द्वीपाः समुद्राश्च सर्वेऽपिसूत्रम्--दिदिविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ ३-८॥
___ भा०-सर्वे चैते द्वीपसमुद्रा यथाक्रममादितो द्विििर्वष्कम्भाः द्वीपसमुद्रसस्थानम् परिक्षेपिणो वलयाकतयः प्रत्येतव्याः। तद्यथा
टी.-सर्वे चैत इत्यादि भाष्यम् । जम्बूद्वीपादयो द्वीपाः स्वयम्भूरमणसमुद्रपयन्ता येन क्रमेण व्यवस्थिता निर्दिष्टा वा तेन क्रमेण, आदितः प्रभृति लवणसमुद्रप्रभृति, द्विगुणविष्कम्भा भवन्ति । विष्कम्भो-व्यासो-विस्तारः तत्क्रमानुसारितयैव पूर्वपूर्वपरिक्षे
१ क्षीरवरोदः' इति घ-टी-पाठः । २ 'नन्दीश्वरवरोदः' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org