________________
२५० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ३ पिणो वलयाकृतयश्च प्रत्येतव्याः ॥ ननु चानिख़तमेवेदं द्विििवष्कम्भा इति, सति मौलविष्कम्भे नितिस्वरूपे युज्यत एतच्छेषाणां, द्विगुण इत्यत्र तु स एव न निरूपित इत्यत्राशङ्कमान आह
भा०-योजनशतसहस्रं विष्कम्भो जम्बूद्वीपस्य वक्ष्यते (सू०९)।तद्विगुणो लवणजलसमुद्रस्य, लवणजलसमुद्रविष्कम्भाद् द्विगुणो धातकीखण्डद्वीपस्य,इत्येवमास्वयम्भूरमणसमुद्रादिति ॥पूर्वपूर्वपरिक्षेपिणः । सर्वे पूर्वपूर्वपरिक्षेपिणः प्रत्येतव्याः। जम्बूद्वीपो लवणसमुद्रेण परिक्षिप्तः। लवणजलसमुद्रो धातकीखण्डहीपेन परिक्षिप्तः । धातकीखण्डद्वीपः कालोदसमुद्रेण परिक्षिप्तः । कालोदसमुद्रः पुष्करवरद्वीपार्धेन परिक्षिप्तः । पुष्करेवरदीपाध मानुषोत्तरेण पर्वतेन परिक्षिप्तम् । पुष्करवरद्वीपः पुष्करवरोदेन समुद्रेण परिक्षिप्तः । एवमास्वयम्भूरमणात् समुद्रादिति ॥ वलयाकृतयः। सर्वे च ते वलयाकृतयः सह मानुषोत्तरेणेति ॥८॥
टी०-योजनशतसहस्र जम्बूद्वीपविष्कम्भो वक्ष्यते अनन्तरागामिनि सूत्रे । शेषेषु लवणजलादिषु द्विगुणद्विगुण इति पूर्व पूर्व उत्तरेणोत्तरेण परिक्षिप्तो-वेष्टितस्तच्छीलेनेति, एतच्चानिष्टविनिवेशव्यावृत्त्यर्थं वचनम्, तिर्यगेवं व्यवस्थिता इत्यर्थः । वलयस्येवाकृतिः-संस्थानं येषां लवणजलादीनांते वलयाकृतयः, चतुरस्रादिनिवृत्त्यर्थं चेदमवगतव्यम्, शेषं सुज्ञानमेव भाष्यमित्यतो न विवियत इति ॥ ८॥
वलयाकृतयो द्वीपा इत्यनन्तरसूत्रेऽभिहितम्, अतो जम्बूद्वीपस्यापि द्वीपत्वाद् वलयाकृ. तिप्रसक्तिस्तदपवादायेदमुच्यते
सूत्रम्--तन्मध्ये मेरुनाभित्तो योजनशतसहस्र
विष्कम्भो जम्बूद्धीपः ॥३-१॥ टी०-जम्बृतरुप्रधानत्वाज्जम्बूद्वीपः ।
भा०–तेषां द्वीपसमुद्राणां मध्ये तन्मध्ये। मेरुनाभिः, मेरुरस्य नाभ्यामिति जम्बूद्वीपस्वरूपम् ,
मेरुर्वाऽस्य नाभिरिति मेरुनाभिः । मेरुरस्य मध्ये इत्यर्थः । पर सर्वद्वीपसमुद्राभ्यन्तरो वृत्तः कुलालचक्राकृतियोजनशतस हस्रविष्कम्भो जम्बूद्वीपः, वृत्तग्रहणं नियमार्थम् ।
टी० तेषामित्यादि भाष्यम् । अनेन विशिष्टसमासप्रतिपत्तिं दर्शयति । तेषामसङ्ख्येयानामुक्तलक्षणानां द्वीपसमुद्राणां मध्ये तन्मध्ये इति, मध्यमत्र नैश्वयिक, न व्यावहारिकमिति । अन्येऽपि जम्बूद्वीपाः सन्त्यतो विशेषणमाह-मेरुनाभिरिति । नाभिरिव नाभिः,
१ योजन = ४००० क्रोशाः । २ 'पुष्करद्वीपार्ध' इति घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org