________________
तार्थाधिगमसूत्रम्
[ अध्यायः ३
भा० - उक्तं ह्येतद् । भूमयः सप्ताघोऽधः पृथुतराइछत्रातिच्छत्र संस्थिताः' तिर्यग्लोक- (अ० ३, सू० १) इति ता यथोक्ताः । तिर्यग्लोको झलकृतिः । प्रस्तावना ऊर्ध्वलोको मृदङ्गाकृतिरिति । तत्र तिर्यग्लोकप्रसिद्ध्यर्थमिदमाकृतिमात्रमुच्यते ॥ ६ ॥
टी० - उक्तं ह्येतदित्यादिना । यथोक्तं यथासन्निवेशं यथाप्रमाणं चाधोलोक इति । झल्लर्याकृतिस्तिर्यग्लोकः । झल्लरी सर्वत्र समतला तुल्यविष्कम्भायामा वादित्रविशेषस्तद्वत् तिर्यग्लोकसन्निवेशः, स च विष्कम्भायामाभ्यां रज्जुप्रमाणो जम्बूद्वीपमेरुरुचकमध्य इति । मृदङ्गाकृतिरूर्ध्वलोक इति । मृदङ्गो - वादित्र विशेष उपरिष्टादश्व संक्षिप्तो मध्ये पृथुस्तदूदूर्ध्वलोकः, ऊर्ध्वाधः किञ्चिदून सप्तरज्जुको ब्रह्मलोकाऽधो व्यवस्थित कृष्णरा जिमध्यगलोकान्तिकदेवनिवासरिष्ठविमानप्रस्तारमध्यस्तिर्यक्पञ्च रज्जुप्रमाणो ब्रह्मलोकप्रदेशेऽन्यत्र प्रदेशहान्या अनियतप्रमाण इति । तत्र च त्रितयेऽधोलोकः प्रागाख्यातः, अधुना तिर्यग्लोकप्रसिद्ध्यर्थमिदमाकृतिमात्रमुच्यते, एवंविधस्तिर्यग्लोक इत्यस्यार्थस्य प्रतीतये सर्वमिदं आ अध्यायपरिसमाप्तेः प्रतायते, संस्थानमात्रं, मात्रशब्दः संक्षेपाभिधानार्थः केनचिल्लेशोदेशेन न पुनर्विस्तरेणेति, विस्तरतस्तु द्वीपसागर प्रज्ञप्त्यादिभ्यो ऽधिगन्तव्य इत्यावे - दयति ।। ६ ।।
सूत्रम् - जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः ॥ ३-७ ॥ भा० - जम्बूद्वीपादयो द्वीपा लवणादयश्च समुद्राः । शुभद्वीपसमुद्र- नामान इति । यावन्ति लोके शुभानि नामानि तन्नामान व्यवस्था इत्यर्थः । शुभान्येव वा नामान्येषामिति ते शुभनामानः ।
२४८
दीपादनन्तरः समुद्रः । समुद्रादनन्तरो द्वीपः ॥
टी० - जम्बूद्वी पादयो द्वीपा इत्यादि भाष्यम् । जम्बूद्वीप इति संज्ञासंज्ञिसम्बन्धोऽञानादिः, पुरुषप्रवाहानादित्वात्, जम्बूतरोश्च सर्वदा सत्त्वात् लोकसन्निवेशस्य च न कदाचिदनीदृशत्वात् स च शब्दार्थसम्बन्धः पुरुषान्तरव्यवस्थाप्योऽनादिप्रवाहरूपोऽपि व्यवहारक्षमतया सन्नियुज्यत इति । जम्बूद्वीपादयो द्वीपाः लवणादयः समुद्रा इत्यादिशब्दस्य प्रत्येकमभिसम्बन्धमापादयति । शुभनामान इत्यनेन विशिष्टामेव संज्ञां द्वीपसमुद्राणां प्रतिपादयति, शुभानि च तानि नामानि चेति शुभनामानि प्रशस्ताभिधानानीत्यर्थः । शुभनामानि येषां ते शुभनामानः, एतदेव स्पष्टयति - यावन्ति लोके शुभानि नामानि तन्नामान इत्यर्थः । कियन्ति पुनस्तानि ? असङ्ख्येयानि लोके शुभनामानीति । तच्चासङ्ख्येयकं विशिष्टमेव परिगृह्यते, तद्यथा - असङ्ख्येयखण्डवालाग्र भूतासङ्ख्ये यवर्ष को ट्युद्धारकालसूक्ष्मपल्योपमप्रपञ्च निष्पन्नार्धतृतीय सागरोपमोद्धारसमय राशिप्रमाणतुल्या द्वीपसमुद्राः । शुभा - न्येव वा नामान्येषामिति एतावद विगानेनावधार्यते, शुभानि हि सर्वेषां द्वीपसमुद्राणां
"
c
१' ब्रह्महान्या ' इति ख- पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org