________________
सूत्रं ६ ]
स्वोज्ञभाग्य - टीकालङ्कृतम्
टी० -- ते चास्तिकाया इत्यादि । अस्ति च ते कायाश्चास्तिकायाः, प्रवाहनित्यतामस्तिशब्दः प्रतिपादयति, न कूटस्थ नित्यताम्, कायग्रहणं प्रदेशावयववहुत्वार्थमिति पञ्चमे वक्ष्यते, स्वतच्चतः - स्वरूपतः - औपशमिकादिभावतः स्वतत्त्वो जीवः । विधानतः - संसारिमुक्तादिभेदतः, लक्षणतः - उपयोगो लक्षणमित्येवं जीवास्तिकायोऽभिहितः, शेषाश्च कचित् प्रसङ्गेनेत्यत उक्ताः, पञ्चमे पुनः प्रतिपदमेव वक्ष्यन्ते धर्मास्तिकायादयः स्वतस्त्वविधानलक्षणैरिति ।। स चैवंविधलक्षणः लोकः क्षेत्रविभागेन त्रिविधः अधस्तिर्यगूर्ध्व चेति । क्षेत्रविभागो विशिष्ट मर्यादाव्यवच्छिन्नः, तद्यथा - समतलाद् भूभागादधोऽवगाह्य नव योजनशतानि रत्नप्रभाव्यवस्थितोपरितनाधस्तनक्षुल्लकप्रतरारब्धः सप्तमधरायाः परतो यावत् षोडश योजनानि तावदधोलोकः, तिर्यग्लोकस्तु तेभ्य एव क्षुल्लकप्रतरेभ्य आरब्धोऽष्टादशयोजनशतान्यूर्ध्वमारुह्य यावज्ज्योतिर्लोको परितनतलस्तावद् भवति, ज्योतिर्लोकोपरितनतलारब्धो यावदूर्ध्वं सिद्धक्षेत्रादुपरि योजनमेकं तावदूर्ध्वलोक इति ।। अधुना लोकसंस्थानव्याख्याह-धर्माधर्मास्तिकायावित्यादि । धर्माधर्मद्रव्ये हि वक्ष्यमाणे समन्ततो लोकसन्निवेशमर्यादाव्यवस्थायाः कारणभूते, यावत्याकाशेऽवगाढे यथावस्थिते तथा तदवगाहनवशालोकसन्निवेशः । ननु क्वचित् पृथुनी कचित् तनुके कचित् प्रदेशवृद्धिपरिहाणियायिनी केर्ने सन्निवेशं ग्राहिते इत्याह- लोकानुभावनियमात् । लोकानुभावो हि महानुभावश्चित्रानेकशक्तिगर्भोऽनादिपारिणामिकस्वभावविशेषस्तत्कृतादेव नियमात् तथासंस्थाने ते द्रव्ये नेश्वरादीच्छाविरचिते, इत्येवं धर्माधर्मद्वयव्यवस्थानकृतो लोकसन्निवेशः । स च सुप्रतिष्टकवत्राकुतिः सुप्रतिष्ठकवज्रयोरिव संस्थानं आकृतिर्यस्यासौ सुप्रतिष्ठकवज्राकृतिर्लोकः, सुप्रतिष्ठकःशरयन्त्रकं यत्र व्यवस्थाप्य वासांसि धूप्यन्ते, तत् किल बहनुहरति लोकसन्निवेशस्य, वज्रमपि शक्रायुधं तदपि बहुसदृशमाचक्षते प्रवचनविदः, लोकसंस्थानस्य स्फुटतरः सन्निवेशोऽमुनैव सूरिणा प्रकरणान्तरे (प्रशम० गा० २१०-२११ ) अभिहितस्तद्यथा
नायाह-१
" जीवाजीवौ द्रव्यमिति षड्विध भवति लोकपुरुषोऽयम् । वैशाखस्थानस्थः पुरुष इव कटिस्थकरयुग्मः ॥ - आर्या तत्राधोमुख मल्लकसंस्थानं वर्णयन्त्यधोलोकम् ।
स्थालमिव तिर्यग्लोक मूर्ध्वमथ मलकसमुद्रम् ||
"" 11
एवं समुदायसन्निवेशमाख्यायाधुना प्रत्येकमधोविभागादिसन्निवेशाभिधित्सया आहअधोलोको गोकन्धरार्धाकृतिः । गोग्रीवायास्त्वधरमर्धमुपरिष्टात् सक्षिप्तमधस्तात् क्रमवृद्धया विशालं विशालतरं च भवति तद्वदधोलोकसन्निवेशः उपरि तनुकोऽधस्तु विशालो विशालतरचेति । एतदर्थ समर्थनायाह
Jain Education International
For Private & Personal Use Only
२४७
"
१' सिद्धिक्षेत्रात्' इति क ख पाठः । २ ' तदा ' इति गं पाठः । ३ ' ते तु ' इति ग-पाठः । ४ ' केन तथा ' इति ग-पाठः ।
www.jainelibrary.org