SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २४६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ३ भा०-यच्च वायव आपो धारयन्ति न च विष्वग् गच्छन्ति आपश्च पृथिवीं धारयन्ति न च प्रस्पन्दन्ते । पृथिव्यश्चाप्सु विलयं न लोकानुभावजा पदार्थाः ॥ गच्छन्ति । तत् तस्यानादिपारिणामिकस्य नित्यसन्ततेर्लोकविनि __ वेशस्य लोकस्थितिरेव हेतुर्भवति ।। टी०-यच्च वायव इत्यादि । तनुवातवलयमाकाशप्रतिष्ठमनालम्बनं धनवातवलयं बिभर्ति, घनमारुतवलयमप्यापो धत्ते, न च ता आपो विष्वग् गच्छन्ति,विशीयन्ते स्रवन्तीत्यर्थः आपश्च कठिनीभूताः सत्यः पृथिवीधारयन्ति न स्पन्दन्ते, ताश्च पृथिव्यो न तास्वप्सु विलीयन्ते, स एष सर्वोऽप्यनादिपारिणामिकः क्रमसन्निवेशो नित्यसन्ततिद्रव्यास्तिकनयावलम्बनात् । तथा चागमः-"इमा णं भंते ! रयणप्पभा पुढवी किं सासता असासता ? गोयमा! सिय सासया सिय असासया, से केणटेणं भंते ! एवं वुच्चइ ? गोयमा ! दव्वयाए सासया, वणपज्जवेहि गन्धपज्जवेहिं रसपज्जवेहिं फासपज्जवेहि असासया, से एतेणं अटेणं गोयमा! एवं बुच्चइ" । अस्यावस्थानस्य लोकानुभाव एव हेतुः-कारणं भवतीति। भा०-अत्राह-उक्तं भवता-'लोकाकाशेऽवगाहः' (अ०५, सू०१२), 'तदनन्तरमूवं गच्छत्यालोकान्तात् (अ०१०, सू० ५) इति । तत्र लोकः कः कतिविधो वा किंसंस्थितो वेति ? । अत्रोच्यते-पञ्चास्तिकायसमुदायोलोकः।। टी०-अत्राह-उक्तं भवतेत्यादिः सूत्रपातनिकाग्रन्थः । सूत्राण्यधिकृत्योच्यते, उक्तं भवता-'लोकाकाशेऽवगाहः' पञ्चमेऽध्याये (मू०१२), तथा दशमे (मू० ५) 'तदनन्तरमूर्ध्व गच्छत्यालोकान्तादिति, " एवमनेकस्मिन् सूत्रे लोकशब्द उच्चरितः, तत्र को लोकः कतिविधो वाकिंसंस्थितो वेति ? उच्यते-पश्चास्तिकायसमुदायो लोकः। धर्माधर्माकाशजीवपुद्गलाः पञ्चास्तिकायास्तत्समुदायो लोकः, आकाशमाधारो भवति, धर्मादयस्त्वाधेयाः, आधाराधेयभावेन यदवस्थानमनाद्यमेषां स लोकः, तथा चागमः-- "किमिदं भंते ! लोगेत्ति पवुच्चति? गोयमा ! जीवा चेव अजीवा चेव"। भा०-ते चास्तिकायाः स्वतत्त्वतो विधानतो लक्षणतश्चोक्ता वक्ष्यन्ते च । स च लोकः क्षेत्रविभागेन त्रिविधः-अधस्तियंगूर्व चेति । धर्मा त्रैविध्यं स्य धर्मास्तिकायौ लोकव्यवस्थाहेतू । तयोरवगाहनविशेषाल्लोका नुभावनियमात् सुप्रतिष्ठकवज्राकृतिर्लोकः । अधोलोको गोकॅन्धरार्धाकृतिः ॥ १ इयं भदन्त ! रत्नप्रभा पृथ्वी किं शाश्वती अशाश्वती ? गौतम ! स्यात् शाश्वती स्यात् अशाश्वती । तत् केना. र्थेन भदन्त ! एवमुच्यते ? गौतम ! द्रव्यार्थतया शाश्वती, वर्णपर्यवैर्गन्धर्यवै रसपर्यवैः स्पर्शपयेवैरशाश्वती, तदेतार्थेन गौतम ! एवमुच्यते। २ किमयं भदन्त ! लोक इति प्रोच्यते? गौतम! जीवाश्चैव अजीवाश्चैव । ३ गूर्ध्वश्चेति' इति घ-टी-पाठः। ४' लोकहेतू' · इति क-ग-पाठः । ५ कन्धराकृतिः इति क-खपाठः। 'कन्धाराधराधाकृतिः' इति तु ग-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy