________________
२४५
सूत्रं ६]
स्वोपज्ञभाष्य-टीकालङ्कृतम् षट्स्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविंशतिसागरोपमा जघन्या स्थितिर्भवति । इयं चस्थितिर्जघन्या उत्कृष्टा वा सामान्येनैकस्यां पृथिव्यामुक्ता न प्रथमप्रतरादिभेदेन,प्रतिप्रतरं स्थितिपरिज्ञानाय विशेषार्थिना नरकेन्द्रकाः समालोकनीया इति । अथैतासु सप्तसु पृथिवीषु किमविशेषेण सर्वे प्राणिनो नरकास्रववर्तिनः सर्वासूत्पद्यन्ते उत केचित् कस्याश्चिदिति, तथा के वा कुतो भूमेरुवृत्ताः सन्तो भवन्ति, किं वा लभन्ते सम्यग्दर्शनादीनाम् ? इत्यत आहभा०-तत्रास्रवेषु यथोक्तैर्नारकसंवर्तनीयैः कर्मभिरसंज्ञिनः प्रथमायामुत्प
द्यन्ते । सरीसृपा द्वयोरादितः प्रथमद्वितीययोः । एवं पक्षिणस्ति. TH सृषु । सिंहाः चतसृषु । उरगाः पञ्चसु । स्त्रियः षट्सु । मत्स्यम
नुष्याः सप्तस्विति । न तु देवा नारका वा नरकेषूपपत्तिमाप्नुवन्ति। नहि तेषां बद्वारम्भपरिग्रहादयो नरकगतिनिर्वतका हेतवः सन्ति(अ०६,सू० १६)। नाप्युदत्य नारका देवेषूत्पद्यन्ते। न ह्येषांसरागसंयमाद्यो देवगतिनिवर्तका हेतवः सन्ति (अ०६,सू० २०)। उद्धृत्तास्तु तिर्यग्योनौ मनुष्येषु वा उत्पद्यन्ते। मनुष्यत्वं च प्राप्य केचित् तीर्थकरत्वमपि प्राप्नुयुरादितस्तिसृभ्यः, निर्वाणं चतसृभ्यः, संयम पञ्चभ्यः, संयमासंयमं षड्भ्यः , सम्यग्दर्शनं सप्तभ्योऽपीति।
टी०-तत्रास्रवेषु यथोक्तैनारकसंवर्तनीयरित्यादि भाष्यं सुज्ञानम् ॥ अधस्तनीषु षट्स्वपि भूमिषु रत्नप्रभादिवत् किं द्वीपादिविनिवेशाः सन्ति ? न सन्तीत्यत आहभा०-द्वीप-समुद्र-पर्वत-नदी-हद-तडाग-सरांसि वा ग्राम-नगर-पत्तनाद
.. यो विनिवेशा बादरो वनस्पतिकायो वृक्ष-तृण-गुल्मादिः द्वीन्द्रिनारकेष्वसंभविनः । IM यादयस्तिर्यग्योनिजा मनुष्या देवाश्चतुर्निकाया अपि न सन्ति ।
अन्यत्र समुद्घातोपपातविक्रियासाङ्गतिकनरकपालेभ्यः । उपपाततस्तु देवा रत्नप्रभायामेव सन्ति । नान्यासु । गतिस्तृतीयां यावत् ।
टी०--द्वीपसमुद्रेत्यादि भाष्यं सुज्ञानं प्रायः । नैते द्वीपादयः सन्ति सन्निवेशा रत्नप्रभामपहायान्यत्रेति, एतस्य विधेरपवादः अन्यत्र समुद्घात इत्यादि । समुद्घातगताः केवलिनः, औपपातिका नारका एव, तथा वैक्रियलब्धिसम्पन्नाः, साङ्गतिकाः पूर्वजन्ममित्रादयः, नरकपालाः परमाधार्मिकाः, एते सर्वेऽपि द्वितीयादिषु भूमिषु कदाचित् केचित् क. चित संभवेयुरपीति, उपपातमङ्गीकृत्य रत्नप्रभायामेव देवाः सन्ति न शेषासु, गमनमङ्गीकृत्य यावत् तृतीयां ततः परं न गच्छन्त्येव, शक्तौ सत्यामपि लोकानुभावादेवेति । तथा अन्यमपि लोकानुभावमादर्शयति प्रसङ्गात्
१'तत्रास्रवैः' इति घ-पाठः। २ ' उद्वर्तितास्तु' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org