________________
२४४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ३ राणि दण्डराजिरिवाम्भसि ॥ एवमेतानि त्रिविधानि दुःखानि नरकेषु नारकाणां भवन्तीति ॥५॥
टी०-अम्बाम्बरीषेत्यादि भाष्यम् । अम्बाः, अम्बरीषाः, श्यामाः, शवलाः, रुद्राः, उपरुद्राः, कालाः, महाकालाः, असयः, असिपत्रवनाभिधानाः, कुम्भीनामानः, वालुकाभिधानाः, वैतरणीसंज्ञाः, खरस्वराः, महाघोषाश्चेति एते पञ्चदशासुरनिकायान्तःपातिनो देवविशेषा एव परमाधार्मिका उच्यन्ते । अधर्मचारिणः अधार्मिकाः । प्रकर्षपर्यन्तवर्तिनः अधामिकाः परमाधार्मिका इति । एते च भिन्नहेतुकदुःखोत्पादनादेवावाप्ततादृग्विधसंज्ञाः समवगन्तव्याः, शेष भाष्यं सुज्ञानमेव प्रायः, एवमेतानि त्रिविधानि दुःखानि नरकेषु नारकाणां भवन्ति, परस्परोदीरणजनितानि क्षेत्रस्वभावोत्पन्नानि सक्लिष्टासुरोदीरितानि वाऽऽचतुर्थ्याः, चतुर्थ्यादिषु परस्परोदीरितानि क्षेत्रानुभावजनितानि चेति द्विविधान्येवेति॥५॥
नारकाथानपवायुष्वादनुवद्धातिविषमदुःखानुनलालीढमूर्तयो नाकाले मर्तुमिच्छन्तोऽपि हि नियन्ते, पूर्ण स्वायुषि पवादुद्वर्तिष्यन्ते, तत् पुनः स्वायुस्तेषां किमित्यत आहसूत्रम्-तेष्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविंशति-त्रयस्त्रिंशत्
सागरोपमाः सत्त्वानां परा स्थितिः ॥ ३-६ ॥ टी०–'तासु नरका' इत्येतान् नरकान् सूत्रत्रयान्तरितान् भाष्यकृदभिसम्बन्धयति॥ भा०–तेषु नरकेषु नारकाणां पराः स्थितयो भवन्ति । तद्यथा-रत्नप्रभाया
मेकं सागरोपमम् । एवं त्रिसागरोपमा, सप्तसागरोपमा, दशनारकाणां मत सागरोपमा, सप्तदशसागरोपमा, द्वाविंशतिसागरोपमा, त्रय
स्त्रिंशत्सागरोपमा इति । जघन्या तु पुरस्तादू वक्ष्यते । 'नारकाणां च द्वितीयादिषु' , 'दश वर्षसहस्राणि प्रथमायाम्' (अ०४, सू०४३-४४) इति॥
टी०-तेषु-उक्तलक्षणेषु नरकेषु ये सत्त्वाः । सत्त्वशब्दः प्रेक्षापूर्वकारितयोपात्तः अनुकम्पाप्रदर्शनार्थम् । सत्त्वा वराका इति, क्लेशभुजो जनाः सत्त्वा इति लोकेऽनुकम्पाशब्देनोच्यन्ते। एताश्चोत्कृष्टाः स्थितयो भवन्ति, रत्नप्रभायामेकं सागरोपमं प्रकृष्टा स्थितिः सत्त्वानाम्, एवं त्रिसागरोपमा स्थितिर्द्वितीयस्यामित्यादि सुज्ञानम् । उपमानमुपमा-सादृश्यं सागरेणोपमाः सागरोपमाः,बहुत्वप्रतिपादनार्थ सागरग्रहणम्, एका(क) सागरोपमा(म) प्रमाणं यस्याः स्थितेःसैकसागरोपमा स्थितिरित्येवमन्यत्रापि योज्यम् । जघन्या स्थितिःपुरो वक्ष्यते लाघवमुपजीवताऽऽचार्येण चतुर्थेऽध्याये-'नारकाणांच द्वितीयादिषु' 'दश वर्षसहस्राणि प्रथमायाम् (सू० ४३-४४)इति,। रत्नप्रभायामवरतो दश वर्षसहस्राण्यायुषः स्थितिः, द्वितीयादिषु १'निकायानामुपपातिनः' इति क-पाठः । २ . ०पमाः ' इति क-ख-ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org