SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ सूत्रं ३ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २३७ दिकालसन्निवेशिनः पृथुपापविपाकभाजां सत्त्वानामाश्रयाः वज्रकुडयमयोः नित्यान्धतमसाश्च वेदितव्याः । विशेषार्थिना चावलिकाप्रविष्टवृत्तन्यत्रचतुरस्रेयत्तापरिज्ञानाय देवेन्द्रनरकेन्द्रकप्रकरणमपेक्षणीयमिति ॥ २॥ किश्चान्यत् । सूत्रम्-तेषु नारका नित्याशुभतरलेश्यापरिणामदेहवेदना विक्रियाः ॥ ३-३ ॥ टी-तेषु व्यावर्णितलक्षणेषु, नरकेषु भवा नारकाः । नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः, अथवोभयमाक्षिप्यतेऽनेन नरकाः नारकाच, तेषु नित्याशुभेत्यादि सूत्रम्, इह सूत्रे नरका नारकाच उभये परिगृह्यन्ते, प्रस्तावान्नरका लेश्यादेहवेदनाविक्रियासम्भवान्नारकाः, नित्यशब्दोऽभीक्ष्णवचनो नित्यप्रहसितादिवत्, नित्याशुभतरलेश्यादयो येषु येषां वा ते नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः॥ भा० ते नरका भूमिक्रमेणाधोऽधो निर्माणतोऽशुभतराः। अशुभा रत्ननरकनारकाणां प्रभायाम्, ततोऽशुभतराः शराप्रभायाम्, ततोऽप्यशुभतरा स्वरूपम् वालुकाप्रभायाम्, इत्येवमासप्तम्याः ॥ टी०-ते नरका इत्यादि भाष्यम् । प्राक्तनसूत्रनिरूपिताः सर्वनामशब्देनात्र गृह्यन्ते नरकाः सीमन्तकादयोऽप्रतिष्ठानपर्यन्ताः,रत्नप्रभादिभूक्रमेणाधोनिर्माणतः संस्थाननिवृत्तेः, अशुभतरा भयानकाः, अशुभा रत्नप्रभायामधस्तनीष्वशुभतरा अशुभतमाश्त्यासप्सम्याः । एतद् भाष्यकारेण सामान्यतो युक्तमेव व्याख्यातम्, न पुनरशुभग्रहणमस्ति सूत्रे, यच्चाशुभतरग्रहणं तल्लेश्यादिभिः सम्बद्धम्, अतःसामान्यव्याख्यानमिदं प्रतिपत्तव्यम्, एकशेषनिर्देशाद वा सिद्धम् ॥ सम्प्रति नित्यार्थमाचष्टे भा०-नित्यग्रहणं गतिजातिशरीराङ्गोपाङ्गकर्मनियमादेते लेश्यादयो भावा नरकगतौ नरकजातौ च नैरन्तर्येणाभवक्षयाद्वर्तनाद् भवन्ति, न च कदाचिदक्षिनिमेषमात्रमपि, न शुभा वा भवन्तीत्यतो नित्या उच्यन्ते । टी-नित्यग्रहणं गतिजाति नियमादेत लेश्यादय इत्यादि । नित्यशब्दोपादानमत्र नरकगतिनरकपञ्चेन्द्रियजात्योर्नियमादशुभतरलेश्यादिभिः सम्बन्धप्रतिपादनार्थम्, १'वज्रकुम्भमयाः' इति क-पाठः । २'तेषु नारका' इति घ-पुस्तके नास्ति। ३ 'वारका' इति क-पाठः । ४ 'सप्तम्याम्' इति ग-टी-पाठः। ५ 'एकदेशानिर्देशाद्', 'एकदेशनिर्देशाद्' इति क-ख-पाठः । ६ नरकपञ्चेन्द्रियजातौ' इति घ-पाठः । ७ 'न भवन्ति शुभा' इति घ-पाठः। ८ इत्युच्यन्ते इति घ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy