________________
२३८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ३ एतदेव विवृणोति-एते सूत्रोपातालेश्यादयो भावानैरन्तर्येणाविच्छेदेन पौनःपुन्येनाभवक्षयादुद्वर्तनकालावधिका भवन्ति, भवक्षये हि सति ते उद्वर्तन्ते, अन्तराले नास्ति जीवितक्षय इत्यावेदयति । नैरन्तर्यार्थ पुनः स्पष्टयति-लोचननिमेषप्रमितमपि कालमशुभेन नास्ति तेषां वियोगः, किमु बहुतरकमिति दर्शयति । अथवैतावन्तमेव कालमशुभास्ते लेश्यादयः स्युरिदमपि नास्तीत्यतो नित्यास्त उच्यन्ते । नन्वेवंविधे नित्यशब्दार्थेऽनुपपनमाभीक्ष्ण्यं स्यात्, तिरोधानपूर्वकः प्रादुर्भावः पुनः पुनराभीक्ष्ण्यशब्दार्थः, इह तु नैरन्तर्येण व्याख्यातमाभवक्षयादिति, उच्यते-तावेव हि तिरोधानाविर्भावौ विशेष्येते नैरन्तर्येण, तौ हि निर्व्यवधानी भवतः सर्वकालमेव तेषाम, अथ 'तभावाव्ययं' ( अ० ५, मू०३०), नित्यलक्षणमपि सम्बद्धं शक्यते, न कश्चिदपराध इति ।
भा०-अतोऽशुभतरलेश्याः । कापोतलेल्या रत्नप्रभायाम् ततस्तीव्रतरसनारकाणांलया क्लेशाध्यवसाना कापोता शकेराप्रभायाम् । ततस्तीव्रतर
- सङ्क्लेशाध्यवसाना कापोतनीला वालुकाप्रभायाम् । ततस्तीवतरसङ्क्लेशाध्यवसाना नीला पङ्कप्रभायाम् । ततस्तीव्रतरसङ्क्लेशाध्यवसाना नीलकृष्णा धूमप्रभायाम् । ततस्तीव्रतरसङ्क्लेशाध्यवसाना कृष्णा तमःप्रभायाम् । ततस्तीव्रतरसक्लेशाध्यवसाना कृष्णैव महातमःप्रभायामिति ॥
टी०--अतोऽशुभतरलेश्या इत्यादि। आद्यास्तिस्रोऽशुभलेश्यास्ताः सप्तस्वपि पृथिवीषु प्रकृष्टतया विभज्यन्ते क्रमवैपरीत्येन, तेषां हि मानसपरिणामो लेश्या, स तीव्रस्तीव्रतरस्तीव्रतम इत्यशुभाभिभूतत्वाद् भवति, तत्र प्रथमायां कापोता तीव्रा, शर्कराप्रभायां सैव तीव्रतरा, तीव्रतमा च कापोता तीव्रा च नीला वालुकाप्रभायाम्, पङ्कप्रभायां नीला तीव्रतरा, धूमप्रभायां नीला तीव्रतमा कृष्णा च तीव्रा, तमःप्रभायां कृष्णा तीव्रतरा, महातमःप्रभायां कृष्णैव तीव्रतमा । अपरे मन्यन्ते-नारकाणां पडपि लेश्याः सम्भवन्ति, सम्यक्त्वप्रतिपत्तेरिति ॥ भा०-अशुभतरपरिणामः । बन्धन-गति-संस्थान-भेद-वर्ण-गन्ध-रस-स्प
_ शांगुरुलघुशब्दाख्यः, दशविधोऽशुभः पुद्गलपरिणामः, नरकेषु नारकाणा पुन- अशुभतरश्च । तियर्गवमधश्च सर्वतोऽनन्तेन भयानकेन नित्यो
त्तमकेन तमसा नित्यान्धकाराः श्लेष्म-मूत्र-पुरीष-स्रोतो-मलरुधिर-चसा-मेद-पूयानुलेपनतलाः । श्मशानमिव पूति-मांस-केशास्थि-चर्म-दन्तनखास्तीर्णभूमयः । श्व-शुगाल-मार्जार-नकुल-सर्प-मूषिक-हस्त्यश्व-गो-मानुष-शवकोष्ठाशुभतरगन्धाः। हा मातः! धिगहो कष्टं बत मुञ्चतं धावत प्रसीद भर्तः! मा वधीः कृपणकमित्यनुबन्धरुदितैस्तीबकरुणैः दीनविक्लवैर्विलापैरास्विनैर्निनादै१ 'अतः' इति घ-पुस्तके नास्ति । २ 'अधोऽधः' इत्यधिको घ-पाठः । ३ 'मुश्च तावत् धावत' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org