________________
२३६
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ३
दक्षिणतः, उत्तरतो महारौरवः, मध्ये चाप्रतिष्ठाननरकेन्द्रकः, स च सकलनरकेन्द्रकपर्यतवर्ती, न ततः परमन्यो नरकसत्त्वावासः समस्ति । तत्र
भा० – रत्नप्रभायां नरकाणां प्रस्तरास्त्रयोदश । विवधूनाः शेषासु ॥ रत्नप्रभायां नरकावासानां त्रिंशच्छतसहस्राणि । शेषासु पञ्चविंशतिः पञ्चदश दश त्रीणि एकं पञ्चोनं नरकशतसहस्रमित्याषष्ठ्याः, सप्तम्यां तु पञ्चैव महानरका इति ॥ २ ॥
नरकेषु प्रस्तराणां कावा च संख्या
टी० - रत्नप्रभापृथिव्यां नरकप्रस्तरास्त्रयोदश वेश्मभूमिकाकल्पाः । द्विद्वधूनाः शेषासु - शर्कराप्रभादिषु महातमः प्रभापर्यवसानासु, त्रयोदश द्वचनाः द्वितीयस्यामेकादश प्रस्तराः, एकादश द्वयूनाः तृतीयस्यां नवप्रस्तराः, नव यूनास्तुर्यवसुधायां सप्त, सप्त इथूनाः पञ्चम्यां पञ्च पञ्च द्वयूनाः षष्ठयां त्रयः, त्रयो द्वयूनाः सप्तम्यामेक इति ॥ कियन्तः पुनरेकैकस्यां भूमौ नरका इति तत्प्रसिद्ध्यर्थमाह - रत्नप्रभायामित्यादि । रत्नप्रभायामावलिकाप्रविष्टनरकाणां चत्वारि सहस्राणि त्रयस्त्रिंशदुत्तरचतुः शताधिकानि, प्रकीर्णकानामेकोनत्रिंशलक्षाः पञ्चनवतिसहस्राणि पञ्च शतानि सप्तषष्ट्यधिकानि, उभयेstarकीकृतास्त्रिंशलक्षा भवन्ति प्रथमायाम्, शेषासु पञ्चविंशतिरित्यादि । शर्करा - प्रभादिषु सप्तम्यन्तासु यथाक्रममेतत्परिमाणमावेदयति नरकाणाम्, द्वितीयस्यामावलिकाप्रविष्टानां षडविंशतिशतानि पञ्चनवत्यधिकानि, प्रकीर्णकानां चतुर्विंशतिर्लक्षाः सप्तनवतिसहस्राणि शतत्रयं पञ्चोत्तरम्, एकत्र पञ्चविंशतिर्लक्षाः । तृतीयस्यामावलिकाप्रविष्टानां चतुदश शतानि पञ्चाशीत्यधिकानि, प्रकीर्णकानां चतुर्दश लक्षाः सहस्राण्यष्टानवतिः पञ्च शतानि पञ्चदशोत्तराणि, एकत्र पञ्चदश लक्षाः । चतुर्थ्यामावलिकाप्रविष्टानां सप्त शतानि सप्तोत्तराणि, प्रकीर्णकानां नव लक्षाः सहस्राणि नवनवतिः द्वे शते त्रिनवत्यधिके, एकत्र दश लक्षाः । पश्चम्यामावलिकाप्रविष्टानां द्वे शते पञ्चषष्ट्यधिके, प्रकीर्णकानां द्वे लक्षे नवनवतिसहस्राणि सप्त च शतानि पञ्चत्रिंशदधिकानि, एकत्र तिस्रो लक्षाः । षष्ठ्यामावलिकाप्रविष्टानां त्रिषष्टिः, प्रकीर्णकानां नवनवतिसहस्राणि नव शतानि द्वात्रिंशदधिकानि, एकत्र नरकपञ्चकोनैकलक्षाः । सप्तम्यां तु पश्चैव नरकाः, प्रकीर्णका न सन्त्येवेति । अत्र रत्नप्रभात आरभ्य आषष्ठ्याः केचि - नरकाः सङ्ख्येयानि योजनसहस्राणि आयामविष्कम्भपरिधिभिः, केचिदसङ्ख्येयानीति, सप्तम्यामप्रतिष्ठाननरकेन्द्रको विष्कम्भायामपरिधिभिर्जम्बूद्वीप तुल्यः, कालादयस्तु चत्वारोऽसंख्येयानि योजनसहस्राणि विष्कम्भायामपरिधिभिः, सर्वे चैते नरका बुझ्नप्रदेशे योजन सहस्रबहलाः, मध्येऽपि योजन सहस्रप्रमाणशुषिरभाजः, उपर्यपि सङ्कुचिता योजनसहस्रमेवते नरकास्तासु रत्नप्रभादिभूमिषु महातमः प्रभापर्यवसानासु व्यवस्थिताः पृथिव्यादिवदना
6
१ नरका: ' इति घ टी-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org