________________
सूत्रं १ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
२३१
चन्द्रादित्यादिविमानानि निरालम्बे विहायसि परिप्लवन्ते, न चाधः पतन्ति लोकानुभावादेवमेवैताः पृथिव्योऽपीति, आकाशं पुनरात्मन्येव प्रतिष्ठितम् नाधारान्तरसमासादितप्रतिष्ठमिति, यस्मादुक्तम् - अवगाहनमाकाशस्येति, पञ्चमेऽध्याये सूत्रतः उक्तम्- 'आकाशस्यावगाह:' ( अ० ५, सू० १८ ) उपकारः, अवगाहदानेन व्याप्रियत आकाशं सर्वद्रव्याणामवगावतां निखगाहदानव्यापारपरं सदवगाहिष्यते तदन्यत्र तदनुरूपाधाराभावादतः स्वप्रतिष्ठं प्रतिपत्तव्यम् ॥
भा०० - तदनेन क्रमेण लोकानुभावसन्निविष्टा असङ्ख्येययोजन कोटी कोट्यो विस्तुताः सह भूमयो रत्नप्रभाद्याः । सप्तग्रहणं नियमार्थम् । रत्नप्रभाद्या मा भूवन्नकशः अनियतसङ्ख्या इति । किञ्चान्यत्। अधः सप्तैवेत्यवधार्यते, ऊर्ध्वं त्वकैवेति वक्ष्यते ॥ टी० - तदनेन क्रमेणेत्यादि भाष्यम्, तस्मादनेन क्रमेण घनाम्बुघनवाततनुवातवलयाकाशप्रतिष्ठानाः सप्तापि भूमयो लोकानुभावादेव सन्निविष्टाः, प्रतिष्ठाने लोकस्थितिर्हेतुः लोकानुभावो हि लोकस्थितिरनाद्या न केनचिदीश्वरादिना कृता व्योमवदकुत्रिमा, असङ्ख्येययोजनकोटी कोट्यो विस्तृता इति तिर्यक्प्रमाणमाचष्टे, नाधः प्राच्यात् रत्नप्रभापृथिवी पर्यन्तात् प्रतीच्यं तत्पर्यन्त एतावदन्तरालमतीत्य भवतीत्येवं शेषाणामपि बहुतरा बहुतमाच कोट्यो भवन्ति, वृत्तत्वाच्च सर्वासां तुल्यं विष्कम्भायामताsध्यवसेया ॥ प्रवचनं चेदम् - " कँतिविहाणं भंते! लोकहिती पण्णत्ता ? गोयमा ! अठ्ठविहा लोग हि पण्णत्ता, तंजा - आगासपतिट्टिए वाए १ वातपतिट्टिए उदही २ उदधिपट्टिया पुढवी ३ पुढवीपतिहिता तस्थावरा पाणा ४ अजीवा जीवपतिट्टिया ५ जीवा कम्मपट्टिया ६ अजीवा जीवसंगहिता ७ जीवा कम्मसंगहिता ८ ॥ से केणट्टेणं भंते ! एवं वृच्छति अठ्ठविहा लोगfeat ? गोयमा ! से जहा नामए के ति पुरिसे वत्थिमाडोवेति, वत्थिमाडोवेत्ता उपिसि तं बंधति, बंधित्ता मज्झे गंठि देति, मज्झे गंठिं दलहत्ता उवरिल्लं गंटिं मुहत्ता उवरिल्लं देतं वामेति, वामेता आउकायस्स पूरेति, पूरिता उपिसि तं बंधति, बंधित्ता मझिलं गठि मुयति, तेणं गोयमा ! से आउका तस्स वाउकायस्स उवरितले चिति, से तेणं अहेणं गोयमा ! एवं वृच्चति-अविहा लोकहिती पण्णत्ता । से जहा वा केइ पुरिसे वत्थिमाडोवेति, आडोवेत्ता कडीए
१ 'ह्यनियत०' इति घ- पाठः । २ तुल्यविष्कम्भायामेत्यध्यवसेया' इति ख- पाठः ।
३ कतिविधा भदन्त ! लोकस्थितिः प्रज्ञप्ता ? गौतम! अष्टविधा लोकस्थितिः प्रज्ञप्ता, तद्यथा-- आकाश प्रतिष्ठितो वातः, वातंप्रतिष्ठित उदधि, उदधिप्रतिष्ठिता पृथ्वी, पृथ्वीप्रतिष्ठिता त्रसस्थावराः प्राणाः, अजीवा जीवप्रतिष्ठिताः, जीवाः कर्मप्रतिष्ठिताः, अजीवा जीवसंगृहीताः, जीवाः कर्मसंगृहीताः । अथ केनार्थेन भदन्त ! एवमुच्यते - अष्टविधा लोकस्थितिः ? गौतम! तत् यथानामकः कश्चित् पुरुषः बस्तिमापूरयति, बस्तिमापूर्य उपरिष्टात् तां बध्नति बद्ध्वा मध्ये
ददाति मध्ये ग्रन्थि दवा उपरितनं मन्थि मुक्त्वा उपरितनं देशं वमयति ( रिक्तीकरोति ) वमयित्वा अप्कायं पूरयति, पूरयित्वा उपरिष्टात् तां बध्नाति, बद्ध्वा मध्यमं ग्रन्थि मुश्चति, तेन गौतम । सः अप्कायः तस्य वायुकायस्य उपरितले तिष्ठति, तदेतेनार्थेन गौतम! एवमुच्यते-अष्टविधा लोकस्थितिः प्रहप्ता । अथ यथा वा कचित् पुरुषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org