________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ३ बंधति, बंधित्ता अत्थाहमतारमपोरिसियंसि उदगंसि ओगाहेजा, पूर्ण गोयमा ! से पुरिसे तस्स आउकायस्स उप्पिं उवरितले चिहति ? हंता चिठति, एवमेव अविहा लोकहिती पण्णत्ता" (भग०श०१,उ०६,मू०,५४)।रत्नप्रभायाश्च प्रथमं काण्डं रत्न-वज्र-वैडूर्य-लोहिताख्य-मसारगल्लहंसगर्भ-पुलक-सौगन्धिक-ज्योतीरसाञ्जनाञ्जन-पुलक-रजत-जातरूपाङ्क-स्फटिकारिष्ठभेदात् षोडशधा, इतरे त्वेकाकारे पङ्कजलबहुले काण्डे, शेषाश्च भूमयः शकेराद्याः एकाकारा एवावसातव्याः । सप्तग्रहणं नियमार्थमित्यादि, विशिष्टसङ्ख्याशब्दोपादानानियमः क्रियते सप्तैवाधः पृथिव्यः, का पुनराशङ्का नियमाभिप्रायानुवर्तिनः सूरेरिति?। उच्यते-रत्नप्रभाद्या मा भूवनेकशो ह्यनियतसङ्ख्या इति । रत्नप्रभायाः प्रथमं काण्डं षोडशधा, तथा पङ्कबहुलं काण्डं जलबहुलं काण्डमिति एकैकस्य भेदस्य पृथिवीत्वाद् बहुत्वं पृथिवीनामधः स्यात्, अत एवमेकैका ह्यनियतसङ्ख्या मा भूदिति सप्तग्रहणमुपातम्, इतरा अपि च प्रतरादिभेदेन भिद्यमाना बहुत्वमनुयान्ति स्वस्थान एवेति तस्मानियमापादनम् । किञ्चान्यत्-अन्यदपि
... हि सप्तग्रहणस्य प्रयोजनमस्त्येव किञ्चित् , अधः सप्तैवेत्यवधार्यते अधःपृथ्वीनां सप्तत्वनियमः यमा विशिष्टसङ्ख्यानियमोऽधः प्रदश्यते, न पुनः पृथिव्य एतावत्य एव
त्रैलोक्य इत्यवधार्यते, यत ऊर्ध्व त्वेकैवेति वक्ष्यति, उपरिष्टात् पुनः सर्वकल्पविमानान्यतीत्यातृतीयद्वीपविष्कम्भायामोत्तानकच्छत्राकृतिरीषत्प्राग्भारा नाम पृथिवी दशमेऽध्याये (१९ तम)कारिकाभाष्येण व्याख्यास्यते 'तन्वी मनोज्ञा सुरभिः, पुण्या परमभासुरा' इत्यादिनेति । तथाऽन्यदपि सप्तग्रहणस्य प्रयोजनमाख्यायते
भा०-अपिच-तन्त्रान्तरीया असङ्ख्येयेषु लोकधातुषु सल्यास्तार असङख्येयाः पृथिवीप्रस्तारा इत्यध्यवसिताः, तत्प्रतिषेधार्थ च
सप्तग्रहणमिति॥ टी०-तन्त्रान्तरीया इत्यादि भाष्यम् । अन्तरे भवाः अन्तरीयास्तन्त्रप्रधाना अन्तरीयास्तन्त्रान्तरीयाः-जिनप्रवचनबाह्यास्ते च प्रायःप्रस्तावान्मायास्सूनवीया एव गृह्यन्ते, सर्वतः किलासङ्ख्येया एव लोकधातवस्तेषु चासङ्ख्येया एव पृथिवीप्रस्तारा इत्यध्यवसिता दुर्मेधसः॥ तदागमश्चायम् “यथा हि वर्षति देवे प्रततधारं नास्ति वीचिका वा अन्तरिका वा एवमेव पूर्वायां दिशि लोकधातवो नैरन्तर्येण व्यवस्थितास्तथाऽन्यास्वपि दिक्ष्विति" तत्प्रतिषेधार्थ च सप्तग्रहणं क्रियते, सप्तैवैताः सर्वतः परिमाणपरिच्छिन्ना लोकान्तर्वतिन्यः, लोकश्च परिमाणवान् सर्वतो जीवाजीवात्मकत्वाच्छरीरादिवदिति, मूर्तिमद्रव्यात्मकत्वाद् वा घटादिवत् ।
बस्तिमापूरयति आपूर्य कय्यां बध्नाति, बध्वा अस्ताघमतार्यमपौरुषेयं उदकमवगाहेत, नूनं गौतम! स पुरुषः तस्य अकायस्य उपरि उपरितले तिष्ठति ? हन्त तिष्ठति, एवमेव अष्टविधा लोकस्थितिः प्रज्ञप्ता।
१"माभवन्ननेकशः' इति ग-टी-पाठः । २ 'नियमादापादनम् ' इति ग-टी-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org