SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ घनश त्वम् २३० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ३. भा०-रत्नप्रभाया अधः शर्कराप्रभा, शराप्रभाया अधो वालुकाप्रभा इत्येवं शेषाः । अम्बुवाताकाशप्रतिष्ठा इति सिद्धे धनग्रहणं क्रियते तेनायमर्थः प्रतीयेत घनमेवाम्बु अधः पृथिव्याः, वातास्तु घनास्तनवश्चेति ।। टी-रत्नप्रभाया अधोऽसङ्ख्येया योजनकोटीनां कोटीरवगाह्य शर्कराप्रभा भवति, शर्कराप्रभायास्त्वधोऽसङ्ख्येया एव योजनकोटीनां कोटीरतिक्रम्य वालुकाप्रभा भवति, एवं शेषाः पङ्कप्रभाद्या असङ्ख्येययोजनकोटीकोट्यवकाशान्तरा वक्तव्या ___ अधोऽध इति ॥ अथ धनग्रहणं किमर्थ क्रियते अम्वुवाताकाशप्रतिष्ठा - इत्येतावतैवाभिलषितार्थप्रसिद्धेरिति ? सरिराह-सत्यमेवं सिद्धयति, सिद्धे सति यत् तथापि धनग्रहणं क्रियते तेनायमों ज्ञाप्यते घनमेवाम्बु अधः पृथिव्याः प्रत्येकं यथा स्यात्, मा भूद् द्रवमिति । वातास्तूभयथा घनास्तनवश्वेति । यथैव पृथिवीनामधोधो व्यवस्थानमशेषाणामेवमेकस्यां पृथिव्यां स्वभेदानामधोऽधो व्यवस्थानं दर्शयितुमाह ____ भा०-तदेवं खरपृथिवी पङ्कप्रतिष्ठा, पङ्को घनोदधिवलखरपंकादिप्रतिष्ठा - यप्रतिष्ठः, घनोदधिवलयं घनवातवलयप्रतिष्ठम्, घनवातवलयं तनुवातवलयप्रतिष्ठम्, ततो महातमोभूतमाकाशम् । सर्व चैतत् पृथिव्यादि तनुवातवलयान्तमाकाशप्रतिष्ठम्, आकाशं चात्मप्रतिष्ठम् । उक्तमवगाहनमाकाशस्येति ॥ टी-तदेवं खरपृथिवी पङ्कप्रतिष्ठा । आदावत्र रत्नप्रभायाः खरपृथिवीकाण्डं रत्नबहुलं योजनसहस्रषोडशकवाहल्यम्, तत् पङ्कपृथिवी काण्डे पङ्काहुले चतुरशीतियोजनसहस्रबहुले प्रतिष्ठितम्, तदपि पङ्कपृथिवीकाण्डमपृथिवीकाण्डे जलबहुलेऽशीतियोजनसहस्रघने प्रतिष्ठितम् । अत्र चाचार्येणाबहुलं काण्डं नोपात्तं पृथग्, घनोदधिवलयग्रहणेनैव लब्धत्वाद, घनोदधिश्च धनोदधिवलयं चेत्येकदेशनिर्देशात्, तत् पुनर्जलबहुलं काण्डं विंशतियोजनसहस्रबहुले घनाम्बुवलये प्रतिष्ठितम्, घनोदधिवलयमप्यसङ्ख्येययोजनसहस्रघने धनवातवलये प्रतिष्ठितम्, घनवातवलयमपि ह्यसङ्ख्येययोजनसहस्रबाहल्ये तनुवातवलये प्रतिष्ठितम्, ततस्तनुवातवलयात् परं महातमोभूतमाकाशमसङ्ख्येययोजनकोटीकोटीप्रमाणम्, तदन्तरालवर्ति वियत् तनुवातवलयद्वितीयपृथिव्योः सूचिभेयेन सन्तमसेन समन्ततो विजृम्भमाणेनातिघनतांगतेन व्याप्तम्, अतो महातम इव तत् प्रतिभातीति महातमोभूतमुच्यते, तचास्याः खरकाण्डादिभेदायास्तनुवातवलयपर्यन्ताया रत्नप्रभापृथिव्याः प्रपनमाधारतामधिगन्तव्यमित्यादर्शयति-सर्व चैतत् पृथिव्यादीत्यादिना । न चैतत् अश्रद्धेयं प्रत्यक्षप्रमाणसमधिगम्यानि १ 'येन प्रतीयते' इति घ-पाठः। २ 'पृथिव्यां' इति ग-घ-टो पाठः। ३ 'योजनकोटीरतिक्रम्य' इति ग-टी. पाठः। ४ 'त्वात्म.' इति घ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy