________________
सूत्र १] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२२९ सचविशेषा इत्यर्थः । तत्र नरकप्रसिद्धयर्थमिदमुच्यते, तत्र-तेषु नरकेषु विवक्षितेषु तन्मूलत्वात् तत्प्रतिष्ठत्वान्नारकप्रतिपत्त्यर्थमेव तावदिदमभिधीयते नान्तरीयकत्वादिति ।। सूत्रम्-रत्नशर्करावालुकापङ्कघूमतमोमहातमःप्रभा भूमयो
घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः पृथुतराः ॥३-१ ॥ टी.-सूत्रकृतोऽप्येष एव सम्बन्धोऽतः पृथग नोक्तः, अथवा वक्ष्यते नवमे-आज्ञापायविपाकसंस्थानविचयाय धय॑मप्रमत्तसंयतस्य (अ० ९, मू० ३७) इति, तत्र संस्थानविचय:
"लोकस्यास्तिर्यग, विचिन्तयेदूर्ध्वमपि च बाहल्यम् ।
__ सर्वत्र जन्ममरणे, रूपिद्रव्योपयोगांश्च ॥"-प्रशम० श्लो० १६० इति, तत्र प्राक् तावदधोलोकस्वरूपमेव पृथिवीभेदेनोच्यते । रत्नशर्करेत्यादि सूत्रम् । ततस्तिर्यग्लोकस्वरूपं जम्बूद्वीपलवणादिप्रक्रमेण, पश्चाच्चतुर्थे ऊर्ध्वलोकस्वरूपमिति, एवमयं त्रिविभागः पञ्चास्तिकायसमुदयवृत्तिर्जीवाजीवाधारक्षेत्रलक्षणो वैशाखस्थानस्थितकटिस्थकरयुग्मपुरुषाकृतिर्लोकः, तस्याधस्तनभागस्वरूपावगमनायेदमुच्यते । अथवा सम्यग्दर्शनमाग्भिर्जीवैलॊकस्यासङ्ख्येयभागः स्पृष्ट इत्युक्तं प्रथमाध्याये (मू०८)सम्यग्दृष्टिना तु सर्वलोकः, तदुच्यता निर्देशतः को लोक इत्यतोऽधोविभागादिः स आख्यायते ॥ रत्नशर्करेत्यादि सूत्रम्, रत्नानि-वज्रादीनि तत्प्रधाना रत्नप्रभा, शर्करादयोऽपि प्रतीतास्तत्प्रधानाः सर्वा वक्तव्याः, प्रभाशब्दो रूपस्वभाववाची, रत्नप्रभा रतस्वभावा रत्नमयी रत्नबहुलेति, एवं शर्कराप्रभादयोऽपि वाच्याः, एष च प्रभाशब्दः प्रत्येकमभिसम्बध्यत इति दशेयति
. भा०–रत्नप्रभा शर्कराप्रभा वालुकाप्रभा पङ्कप्रभा धूमप्रनरकपृथ्वीनामाधारा - भा तमःप्रभा महातमःप्रभा इत्येता भूमयो घनाम्वुवाताका
शप्रतिष्ठा भवन्त्येकैकशः सप्ताधोऽधः ॥ टी०-रत्नप्रभेत्यादिना भाष्येण । इत्येता भूमयो घनाम्वुवाताकाशप्रतिष्ठा भवन्त्येकैकशः सप्ताधोऽधः, एवमेता रत्नप्रभाद्याः पृथिव्यो घनाम्बुनि वायौ वियति च प्रतिष्ठिताः, नेश्वरायाधारा इत्याचष्टे । घनाम्बु च वाताश्चाकाशं च घनाम्बुवाताकाशानि तेषु प्रतिष्ठा-स्थितिवर्तनं यासां ता घनाम्बुवाताकाशप्रतिष्ठा भवन्ति, एकैका एकैकशः घनाम्बुवाताकाशक्रमेण प्रतिष्ठिताः, न पुनः सप्तानामप्यध एव धनाम्बुवाताकाशानि प्रत्येकमन्तरालेषु न सम्भवन्तीति, सङ्ख्ययाऽवधार्यन्ते सप्तैवान्यूनाधिका इति । अधोऽध इति प्रतिविशिष्टक्रमाख्यानं तिर्यमूर्ध्वदिशो व्युदासः, एतदेव स्पष्टयति१ 'सम्बन्धो न पृथगुक्तः' इति क-ख-पाठः । २'महातमःप्रभा भूमयो' इति ग-टी-पाठः । ३ अधः' इति
क-ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org