________________
॥ श्रीगौडीपार्श्वनाथाय नमः ॥
तृतीयोऽध्यायः३ भा०-अनाह-उक्तं भवता नारका इति गतिं प्रतीत्य जीवस्यौदयिको भावः । तथा जन्मसु 'नारकदेवानामुपपातः'(अ०२, सू०३५)। वक्ष्यति च स्थिती 'नारकाणां चद्वितीयादिषु' (अ०४, सू० ४३), आस्रवेषु 'बहवारम्भपरिग्रहत्वं च नारकस्यामषः ( अ०६, सू०१६) इति। तत्र के नारका नाम क वति ? । अत्रोच्यतेनरकेषु भवा नारकाः। तत्र नरकप्रसिद्धयर्थमिदमुच्यते
टी-अत्राह-उक्तं भवतेत्यादिः सम्बन्धग्रन्थः, स चाध्यायप्रकरणसूत्रकृतः, तत्राध्यायकृतस्तावद् द्वितीये जीवा लक्षणविधानाभ्यामभिहिताः, तत्र लक्षणमेकरूपत्वान्न पुनरभिधीयते,
विधानं तु बहुरूपत्वात् पुनः पुनरभिधापयति, अतोऽत्रापि तृतीयेऽध्याये नारकाधिकार- 6 प्रतिविशिष्टस्थाननिरूपणाद्वारेण जीवविधानमेव विवक्षितमिति । प्रकरण
शानिपटाm प्रस्तावना
" सूत्रकृतौ तु सम्बन्धौ भाष्यकारेणोपात्तौस्वयमेव, तयोः प्राकाश्यमापाद्यते। अत्र-अध्यायपरिसमाप्तिप्रस्तावे शिष्य आह-अभिहितं भवता द्वितीयेऽध्याये भावप्रकरणे नारका इति गति प्रतीत्य जीवस्यौदायको भाव इति । गतिकषायलिङ्गसूत्रं ( अ० २, स० ६) अनेन भाष्येण सूचयति । तथा तस्मिन्नेव द्वितीये जन्मप्रकरणप्रस्तावे नार कदे
_ वानामुपपातः (अ० २, सू० ३५) इत्युक्तम्, तथा चतुर्थेऽध्याये स्थिनारकाधिकारस्था. तावायुषः प्रस्तुतायां वक्ष्यति भवान्-नारकाणां च द्वितीयादिषु, नानि
दश वर्षसहस्राणिप्रथमायाम् (अ०४, सू०४३, ४४) इति, तथा षष्ठे ऽध्याये कर्मास्रवविचारणायां बवारम्भपरिग्रहत्वं च नारकस्यायुषः (अ०६, सू०१६) इति प्रतिपादयिष्यते। तत्रैवमनेकस्मिन् स्थाने नारकशब्दश्रवणादाहितसंशयः पृच्छति-केनारका नामेति जीवत्वसामान्यमवधृतं विशेषो निवासादिरनवधृत इत्यतःप्रश्नयति-के पुनस्ते नारका इति । अत्रोच्यते-नरकेषु भवानारकाः, वक्ष्यन्ते उपरिष्टादुष्ट्रिकापिष्टपचनीलोहीक रकायाकृतयः सीमन्तादयो नरकाः विशिष्टाकृतयोऽपुण्यसंभारजनितगौरवाणां सत्त्वानामुत्पत्तिस्थानविशेषाः,ते च किलाशुभकर्मभाजो नरान् कायन्ति-आह्वयन्तीति नरकाः,"रूढिषु हि क्रिया पुत्पत्तिकमाथा नार्थक्रियाथो" इतिवचनात् न ते कञ्चिदाह्वयन्ति नापि नरानिति, तिरश्चामपि तत्र गमनाद, अतो व्युत्पत्तिमात्रमेव केवलम्, तेषु नरकेषूष्ट्रिकाद्याकृतिषु भवा नारकाः,
'तत्र के नाम' इति ग-टी-पाठः। २ 'चेति' इति घ-पाठः । ३ 'जीवविशिष्टमेव' इति ख-पाठः । ४ "क्रियाद्युत्पत्ति' इति ग-पाठः । ५ 'नर्थक्रिया' इति ग-टी-पाठः ६ 'किञ्चित् इति क-ख-पाठः । ७ 'केषु' इति ग-टी-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org