SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सूत्रं ५२] स्वोपज्ञभाष्य-टीकालङ्कृतम् २२७ पवर्तनः कर्मण आयुषः शीघ्र फलविपाको भुज्यत इत्यर्थः । अतः क्रमानुभवे वेष्टिताद्रेपटपरिशोषकालवद् बहुत्वं कालस्य, प्रसारिताद्रेपटपरिशोषकालचाल्पकालता परिवतितायुष्कपरिभोगकालस्य । एवं च सति न कृतप्रणाशा कृताध्यागमाफल्यानीति निगमयति-समस्तायुद्रेव्योपभोगात् कृतविप्रणाशो नास्ति, न चायुष्यपरिनिष्ठिते म्रियत इ. त्यकृताभ्यागमाभावः, परिभुक्तत्वादेव च सकलस्यायुषो न वैफल्यप्रसङ्गः, अत एव जात्यन्तरानुबन्धत्वाभावोऽपीति । न चेह भाष्यकारेणोक्तः, प्रागुपन्यस्तस्यापि पूर्वकत्रयस्याभावे तदभावात्, तस्मादवस्थितमिदम् केचिदकाले प्राणिनो नियन्ते पूर्वजन्मोपात्तायुककालापेक्षया, केचिदनन्तरातीतजन्मोपात्तायुष्ककालमखण्डमवसायं प्रापय्य विहायास्ते(?) न शेषात् स्वकतकर्मादिष्टं जन्मान्तरमनुवनन्तीति ॥ ५२ ॥ ग्रन्थाग्रमङ्कतः ३४२० इति श्रीतत्त्वार्थसूत्रेऽर्हत्प्रवचनाधिगमे भाष्यानुसारिण्या तत्त्वार्थटीकायां द्वितीयोऽध्यायः ॥२॥ ॥इति द्वितीयोऽध्यायः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy