________________
२२६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ योगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थ कर्मापवर्तयति, न चास्य फलाभाव इति, उपक्रमो-विषाग्निशस्त्रादिस्तेनाभिहतो मरणं-आयुःक्षयस्तत्र समुद्घातः, मरणसमुद्घातो नाम स्वशरीरकादात्मप्रदेशापकर्षो मूर्छानुगतश्चेतनाविमुक्त इवाव्यक्तप्रबोधलक्षणोऽस्तमितसकलबहिर्तिचेष्टाक्रियाविशेषः स एवं चातिचिररूढमूलप्रदेशोत्खननरूपत्वाद् दुःखं तेना?-विषण्णः किंकर्तव्यताविमुखः कर्मप्रत्ययं-कर्मकारणं करणविशेषमुत्पाद्यापवर्तनाख्यम्, कर्मकारणता तु करणविशेषस्य पूर्वभवबन्धकाल एव प्रयत्नशैथिल्यात् सोपक्रमबन्धः अत्यन्तापरिज्ञानमनाभोगः अनाभोगकृतो योगः योग:-चेष्टाविशेषः अनाभोगयोगस्तत्पूर्वकंतत्कारणम् । एतदुक्तं भवति-अजानान एव हि तदपवर्तनाकरणेनापवर्तनाह कर्मापवर्तयति आहाररसादिविपरिणामवत, किमर्थ पुनरपवर्तयति ? फलोपभोगार्थमायुष्कर्मफलोपभोगायानाभोगनिवर्तितेन वीर्यविशेषेणेति, न चास्यायुष्कर्मणः फलाभावो भवति । इयांस्तु विशेषः--क्रमपरिभोगे बहुकालः, संवर्तितपरिभोगे स्वल्प इति, न पुनरभुक्तं तत्र किश्चित् कर्म परिशटतीति । किञ्चान्यदित्यनेनापरमपि प्रकृतार्थोपयोगिनमादर्शयति दृष्टान्तम्-- प्रकृतस्य समर्थनम्
भा०-यथा वा धौतपटो जला एव संहताश्चिरेण शोष
- मुपयाति, स एव च वितानितः सूर्यरश्मिायुभिहंतः क्षिप्रं शोषमुपयाति, न च संहते तस्मिन्नभूतस्नेहागमो नापिवितानित सति अकृत्स्नशोषः, तद्यथोक्तनिमित्तापवर्तनैः कर्मणः क्षिप्रं फलोपभोगो भवति, न च कृतप्रणाशाकृताभ्यागमाफल्यानीति ॥ २ ॥
टी०-यथा वा धौतपट इत्यादि । एवं चैष प्रकृतोऽर्थः प्रतिपत्तव्यः । यथा वा क्षालितपटो जललेशोपचितमूर्तिरेवावेष्टितश्चिरायोद्वायति, स एव प्रयत्नविशेषतो विस्तारितः सन् सहस्ररश्मिमयूखमालाभिः परिपीताशेषजललवः प्रबलपवनवेगविघटितनिरवशेषप्रदेशः शीघ्रमपास्ताश्रितजलसङ्घातःसमासादिताधिकतरधवलिमाऽपि परिशष्यति । न च संहते तस्मिन्नभूतस्नेहागम इति, न चाभूतजलस्नेहागमो भवति तस्मिन् संवेष्टितपटे, किन्तु संहतत्वात् तावन्त एव जलावयवाः कालेन बहुना परिशटन्ति, न पुनरभूतानामेव स्नेहावयवानामागमः, नापि वितानिते अकृत्स्नशोषः, न च प्रसारिते तस्मिन् पटे कृत्स्नजलावयवपरिशोषो न भवति, विततेऽपि हि सर्व एव ते जलावयवाः परिशध्यन्ति, तेषां हि जलावयवानां यावती मात्रा वेष्टितपटे तावत्येव प्रसारितेऽपि, परिशोषकालस्तु भिद्यते । परे व्याख्यानयन्ति-न च संहते तस्मिन् न भूतः स्नेहापगमः, भूत एव सञ्जात एवेत्यर्थः, किन्तु बहोः कालात, वितानिते तु द्रागेव च कृत्स्नवारिनिवहापगमः। तद्वदित्यनेन दान्तिकमर्थस्य दर्शयतितुल्यतया यथोक्तनिमित्तापवर्तनः क्षिप्रं फलोपभोगो भवतीति । यथाऽमिहितं विषा. निशस्त्रादि येषामपवर्तनानां तान्यवपर्तनानि यथोक्तानि निमित्तानि तैर्यथोक्तनिमित्ता१०वाय्वभिहतः ' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org