SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सूत्रं ५२ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २२५ नमित्युच्यते । संहतशुष्कतृणराशिदहनवत् । यथा हि संहतस्य शुष्कस्यापि तृणराशेरवयवशः क्रमेण दह्यमानस्य चिरेण दाहो भवति तस्यैव शिथिलप्रकीर्णोपचितस्य सर्वतो युगपदादीपितस्य पवनोपक्रमाभिहतस्यार्थस्याशु दाहो भवति तद्वत् ॥ ___टी०-न खल्वेते दोषाः प्रतिभान्ति जिनशासनावलम्बिनाम्, सिद्धान्तापरिज्ञानाच्चैवं चोद्यते, नायमाहेतः कृतान्तः फलमदत्त्वा कर्म प्रणश्यतीति, किन्तु यथोक्तैरुपक्रमैरध्यवसानविषशस्त्रादिभिरभिहतस्याभिप्लुतस्य सर्वसन्दोहेन-सर्वात्मना साकल्येनासादितोदयमायुष्कं कर्म प्राप्तविपाकमाशु भवति, यस्तु तस्य क्रमभावी विपाकः सोऽपवय॑ते, अनुभवः पुनः सवेस्य युगपन निषिध्यते इत्येषोऽपवर्तनशब्दार्थः। बहिर्वर्तमानवस्तुविशेषप्रसिद्धयाऽन्तःप्रसिद्धिः साध्यत इत्याह-संहतेति । संहतत्वात् परिशेषवानपि तृणपुञ्जश्चिराय दह्यते, यदा तु विरलितो भक्त्यवयवशस्तदाऽऽशु भस्मसाद् भवति, तद्वदायुषोऽप्यनुभवः, यदाऽऽयुदृढसंहतमतिघनतया बन्धकाल एव परिणामापादितं भवति पवनश्लेषवत् तत् क्रमेण वेद्यमानं चिराय वेद्यते, यत् पुनर्बन्धकाल एव शिथिलमाबद्धं तद् विकीर्णत गराशिदाहवदपवाशु वेद्यत इति । एवंविधार्थप्रक्रमे दृष्टान्तसुलभतामादशेयन्नाह भा०-यथा वा सङ्ख्यानाचार्यः करणलाघवार्थ गुण. त्वे दृष्टान्तः क्षय. कारभागहाराभ्यां राशि छेदादेवापवर्तयति, न च सङ्ख्येय स्यार्थस्याभावो भवति, तद्वदुपक्रमाभिहतोमरणसमुद्घातदुःखातः कर्मप्रत्ययमनाभोगयोगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थ कर्मापवर्तयति, न चास्य फलाभाव इति ॥ किश्चान्यत् ।। टी०-यथा वा सङ्ख्यानाचार्य इत्यादि । सङ्ख्यान-गणितशास्त्रं तत्प्रधान आचार्यः सङ्ख्यानाचार्यो गणितप्रक्रियायामाहितनैपुणः, करणलाघवाय करणानि-गुणकारभागहारापवर्तनोद्वर्तनादीनि गणितशास्त्रप्रसिद्धानि, तत्र यो लघुः करणोपायः स्वल्पकालस्तेन तत्फलमानयति गणिताभिज्ञत्वात्, तुल्येऽपि हि फलानयने गुणकारभागहारौ चिराय तत्फलमभिनिवतेयतः, स पुनर्गणितनिपुणो गुणकारभागहाराभ्यां चिरकालकारिभ्यां सकाशात् करणलाघवार्थमपवर्तनाह राशिच्छेदादेवार्धादिकादपर्वतयति, षण्णवत्यादिकम्, अनपवर्तनाह पुनर्लघुकरणाभिज्ञोऽपि न शक्नोत्येवापवर्तयितुम्, एकपञ्चाशदुत्तरसहस्रादिकम् , गुणकारभागहारक्रममेवात्र प्रयोजयति, न च सख्येयस्यार्थस्याभावो भवति, फलभूतस्य करणविशेषे सत्यपि प्रेप्सितकलाभेदमादर्शयति । करणव्यापारकालो बहुरल्पभेदः फलमविशिष्टमेवोभययोर्यथैतदुपक्रमाभिहतो मरणसमुद्घातदुःखातः कर्मप्रत्ययमनाभोग १ प्रसिद्धयतः प्रसिद्धिः' इति क-पाठः। अपवर्तनेऽप्यक्षय. - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy