________________
२२४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ पुनरपवर्तनमुच्यत इत्याह-अपवर्तनं शीघ्रमन्तर्मुहूर्तात् कर्मफलोपभोगः, न खलु कर्मनाशोऽपवर्तनं, किन्तु शीघ्रं यः सकलायुष्कर्मफलोपभोगस्तदपवर्तनम्, अनेनैतत् कथयति तावदपवर्तते तदायुर्यावदन्तर्मुहर्तस्थितिजातं, ततः परं निवर्ततेताग्विधाध्यवसानाद्यभावात् । अत्र चापवर्तनफले कर्मफलोपभोगेऽपवर्तनशब्दः प्रयुक्तो भाष्यकारेण-उपक्रमोऽपवर्तन. निमित्तमिति पर्यायाख्यानमात्रमेतत् । अल्पतापत्तिकारणानामुपक्रमः, अपवर्तनमपि दीर्घकालस्थितितः कर्मणो ह्रस्वस्थितिकरणं निमित्तं विषशस्त्रायल्पताहेतुः, एवमिदमपवर्तनमिहायुरङ्गीकृत्याभिहितमन्यासामपि तु प्रकृतीनामनिकाचितावस्थानां प्रायोऽवसेयम् । तपोऽनुष्ठानात् पुननिकाचिता अप्यपवर्त्यन्त इति पारमर्षी श्रुतिः॥ अथेदानी कर्मविनाशलक्षणमपवर्तनशब्दार्थमङ्गीकृत्य चोदयति-अत्राहेत्यादिना भाष्येण ।
भा०---अत्राह-यद्यपवर्तते कर्म तस्मात् कृतनाशः प्रसज्यते यस्मान्न वेद्यते। अथास्त्यायुष्कं कमें म्रियते च, तस्मादकृताभ्यागमः प्रसज्यते येन सत्यायुष्के म्रियते, ततश्चायुष्कस्य कर्मणः आफल्यं प्रसज्यते। अनिष्टं चैतत् । एकभवस्थिति वाऽऽयुष्कं कर्म न जात्यन्तरानुबन्धि। तस्मान्नापवर्तनमायुषोऽस्तीति । अत्रोच्यतेटी--अनावसरे पर आह-यद्यपवर्ततेऽपैति-विनश्यति फलमदत्त्वाऽऽयुष्ककर्म तस्मात् यस्य कर्मणः कृतस्य सतो निष्फलत्वान्नाशः प्रसज्यते यस्मात् तन्न वेद्यते-नानुभूयत इत्यर्थः । अनिष्टं चैतद्-अवश्यं हि कर्मोपात्तमनुरूपं फलमुपाधाय स्वामिनि परिशटत्युत्तरकालं न पुनरदत्त्वैव फलं विलीयत इति । अथाननुभूते सत्येवायुष्के म्रियते तस्मादकृतस्यैवाभ्यागमो मरणस्यान्तराल एव प्रसज्यते, येन सत्यायुप्के म्रियते ततश्चायुषो विफलताप्रसङ्गः,अनिष्टं चैतत्, न खलु जैनसिद्धान्तोऽयं यत् कृतं सत्कर्म प्रणश्यति, अदत्तफलमकृतमेव चानुभूयत इति । अन्यच्च अननुभूते तस्मिन् कर्मण्ययमपरो दोषः-एकभवस्थिति वाऽऽयुष्कं कर्म न जात्यन्तरानुबन्धि ॥ ननु चान्यस्मिन् भवे बद्धमन्यत्र वेद्यते कथमेकभवस्थिति स्यात् । उच्यते-न बन्धं प्रति ब्रमः, उपभोगं प्रत्येकभवस्थितिकमायुराचक्ष्महे, एकस्मिन्नेकभवे भवत्यायुष उपभोगो न द्वितीयेऽपीति, यथा च त्वयाऽभ्युपेयते सत्येवायुषि म्रियते तथा तेनायुषा जात्यन्तरानुबन्धिना भाव्यम्, असिद्धान्तप्रस्थानं चैतत् , तस्माद् दोषचतुष्टयसम्भवानापवर्तनमायुषां विद्यते इति । अत्रोच्यते समाधानम्
___भा०—कृतनाशाकृताभ्यागमाफल्यानि कर्मणो न विद्यन्ते । आयुषो हासेऽपि कृतनाशादिदोषा- नाप्यायुष्कस्य जात्यन्तरानुबन्धः, किन्तु यथोक्तैरुपक्रमैरभि
हतस्य सर्वसन्दोहेनोद्यप्राप्तमायुष्कं कर्म शीघ्र पच्यते तदपवर्त१ 'तदपवर्तते' इति क-पाठः। २' चायु. ' इति घ-पाठः ।
भावः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org