________________
सूत्र ५२] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२२१ कदाचिदप्युपक्रान्तेरदर्शनात् । अपरे वर्णयन्ति-तीर्थकरौपपातिकानां नोपक्रमतो मृत्युः, . शेषाणां चरमदेहोत्तमपुरुषासङ्ख्येयवर्षायुषामुभयथा, एवंविधाभ्युपगमे भाष्यमुपरिष्टादगमितं स्यात्, औपपातिकाथासङ्ख्येयवर्षायुषश्च निरुपक्रमाः, चरमदेहाः सोपक्रमा निरुपक्रमाश्चेति भाष्यमिदमत्यन्तमसङ्गतं स्यात् । कर्मप्रकृतिग्रन्थानुसारिणस्तु वर्णयन्ति
" अद्धा जोगुक्कस्सा, बंधित्ता भोगभूमिए सुलह ।
सव्वप्पजीवितं वज्जइत्तु उपट्टि(य)त्ता दोण्हम् ॥"
. उत्कृष्टप्रदेशोदयविचारे सङ्ग्रहिण्यामियं गाथा, अर्थस्त्वस्याः-उत्कृयुगलिनोऽप्यायुषो. अपवर्तनम् गुषो. ष्टबन्धाद्धायामायुषो योगेनोत्कृष्टेन तिर्यगायुर्मनुष्यायुर्वा बवा मृतः सन्
।
- भोगभूमिजेषु तिर्यक्षु मनुष्येषु च त्रिपल्योपमस्थितिषूत्पन्नः पश्चादाशु सर्वोल्पजीवितमन्तर्मुहूर्त विहाय शेषमायुस्त्रिपल्योपमस्थितिकमपवर्तयन्त्यन्तर्मुहूर्तोनमिति । यदा च तदपवर्तितं भवति तदा किलोत्कृष्टः प्रदेशोदयो भवतीति, न च शक्यमनेनाभिप्रायेण भाष्य गमयितुमतिविरोधात , तस्मादवस्थितमिदमनपवर्तनीयानि द्विविधानि-सोपक्रमाणि निरुपकमाणि चेति, अपवर्तनीयानि तु नियतं सोपक्रमाणि । तुशब्दोऽवधारकः । सोपक्रमाण्येवापवर्तनीयान्यायूंषि भवन्ति सर्वदा, यतो न ह्यपवर्तनाध्यवसानादिकं निमित्तमन्तरेणात्मलाभं प्रतिपद्यते । तत्र केऽनपवायुषः के वाऽपवायुष इत्यन्यतराख्यानेऽन्यतरपरिज्ञानं भवति लघुत्वाच्चानपवायुषः सूत्रेण दर्शयतिसूत्रम्-औपपातिकचरमदेहोत्तमपुरुषासङ्ख्येयवर्षायुषो.
नपवायुषः॥ २-५२ ॥ टी०-अनपवायुषो निर्धार्यन्तेऽमुना योगेन, तच्चावधारणं तत्र शब्देनाख्याति भाष्यकारः।
.... भा०-औपपातिकाश्चरमदेहा उत्तमपुरुषाः असङ्ख्येयवर्षाअनपवायुषः । स्वामिनः 'युष इत्यतऽनपवायुषो भवन्ति । तत्र औपपातिका नारक
देवाश्चेत्युक्तम् (अ०२, सू० ३५)। चरमदेहा मनुष्या एव भवन्ति, नान्ये । चरमदेहा अन्त्यदेहा इत्यर्थः। ये तेनैव शरीरेण सिद्धयन्ति । उत्तमपुरुषास्तीर्थकरचक्रवर्त्यर्धचक्रवर्तिनः। असङ्ख्ययवर्षायुषो मनुष्यास्तिर्यग्योनिजाश्च भवन्ति ।
टी०-औपपातिका इत्यादि भाष्यम् । उपपातजन्मानो नारकदेवाः, चरमः-अन्त्यो देहो येषां ते चरमदेहाः-पुनर्देहग्रहणं ये न करिष्यन्ति, उत्तमपुरुषास्तीर्थकरचक्रवर्तिवलदेववासुदेवाः । केचिदभिदधते-- नास्ति सूत्रकारस्योत्तमपुरुषग्रहणमिति तत् कथं तीर्थकरादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org