________________
२२२
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः २ सङ्ग्रह इति चेत्, एवं च मन्यन्ते चरमदेहग्रहाद् ग्रहीष्यन्ते, कथम्? ये किल चरमदेहास्ते नियमत एवोत्तमा भवन्ति, उत्तमास्तु चरमदेहत्वेन भाज्या वासुदेवादय इति, तसादनापमुत्तमपुरुषग्रहणमिति, उभयथा च भाष्यमुपलक्ष्यते अविगानात, आदावुत्तमपुरुषास्तीर्थकरादय इति विवृतमुत्तरकालं पुनर्नोपात्तमुत्तमपुरुषग्रहणं निरुपक्रमसोपक्रमनिरूपणायाम् , अतो भाष्यादेव सन्देहः, किमस्ति नास्तीति संशयात्तमेवेदमस्माकम् । असङ्ख्येयवर्षाणि गणितविष. यातीतान्यायूंषि येषां तेऽसङ्ख्येयवर्षायुषोऽकर्मभूम्यन्तरद्वीपका मनुष्याः, भरतैरावतविदेहेषु च तत्तुल्यकालाः पञ्चेन्द्रियतिर्यग्योनयश्च तदन्यक्षेत्रद्वीपसमुद्रेषु, एवमेतेऽनपवायुषो द्रष्टव्याः। एतदेव स्पष्टयति भाष्यकार:-औपपातिका नारका देवाश्चेत्युक्तमिति स्मारयति प्रागमिहितं (अ०२,सू०३५), नाधुना व्याख्येयमिति । चरमशरीरास्तु मनुष्या एव भवन्ति, नान्ये। नारकतियेग्देवव्युदासः सिद्धययोग्यत्वात् । चरमदेहान् प्रसिद्धतरपयोयशब्देन कथयति-चरमदेहा अन्त्यदेहा इत्यर्थः । येतेनैव शरीरेण सकलकर्मजालमपहाय सिद्धिमशेषकर्मापगमलक्षणामाप्नुवन्ति इति । उत्तमपुरुषास्तीर्थकरचक्रवत्यधचक्रवर्तिनः तीर्थकरनामकर्मोंदयवर्तिनस्तीर्थकराः, चक्रवर्तिनोऽपि नवनिधिपतयश्चतुर्दशानां रत्नानां नेतारः खपौरुषोपात्तमहाभोगभुजः सकलभरताधिपा भवन्ति, अर्धचक्रवर्तिनस्तु बलदेववासुदेवाः एवमादयशान्येऽपि किल प्रदर्शनाद् गणधरादयो गृह्यन्ते । असङ्ख्येयवर्षायुषो मनुष्यास्तिर्यग्योनिजा भवन्तीत्यादि भाष्यम् । एतेष्वेवासङ्ख्येयवर्षजीवित्वं लभ्यते, न नारकदेवेषु सम्भवन्त्यपि, तत्रासङ्ख्येयानि वर्षाण्यौपपातिकग्रहणान्निवार्यन्त इति, मनुष्याणां तिरश्वां च मध्ये सम्भवन्त्यसङ्ख्येयवर्षायुपस्तेऽनपवायुषः । ते च
भा०–सदेवकुरूत्तरकुरुषु सान्तरदीपकास्वकर्मभूमिषु कर्मभूमिषु च सुषमसुषमायां सुषमायां सुषमदुष्षमायामित्यसङ्ख्येयवर्षायुषो मनुष्या भवन्ति । अत्रैव बाह्येषु द्वीपेषु समुद्रेषु तिर्यग्योनिजा असङ्ख्येयवर्षायुषो भवन्ति । औपपातिकाश्वासङ्ख्येयवर्षायुषश्च निरुपक्रमाः। चरमदेहाः सोपक्रमा निरुपक्रमाश्चेति । एभ्य औपपातिकचरमदेहासङ्ख्येयवर्षायुभ्यः शेषा मनुष्यास्तिथग्योनिजाः सोपक्रमा
निरुपक्रमाश्चापवायुषोऽनपवायुषश्च भवन्ति । तत्र येऽपवअपवर्तनीया. पवन यायुषस्तेषां विषशस्त्रकण्टकाग्युदकाह्यशिताजीर्णाशनिप्रपा
ताइन्धनश्वापदवज्रनिर्घातादिभिः क्षुत्पिपासाशीतोष्णादिभिश्च द्वन्द्वोपक्रमैरायुरपवर्त्यते। अपवर्तनं शीघ्रमन्तर्मुहूर्तात् कर्मफलोपभोगः, उपक्रमोऽपवर्तननिमित्तम् ॥
१ 'बलदेवप्रतिवासुदेवाः' इति क-ख-पाठः । २ अयं तु घ-पाठः, 'पातिकं चरम• ' इति तु ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org