________________
२२० तत्त्वार्थाधिगमसूत्रम्
[अध्यायः २ न्दपरिणामप्रयोगकारणाभ्यासादासादितमनेनायुजन्तुनाऽतीतजन्मनि तदपवर्तनाहमाचक्षते क्षतक्लेशाः । यः पुनरतिमहान्तं धातुक्षोभमाश्रित्यापथ्यनिदानासेवनादिना समजनि व्याधिरतिदीर्घकालकलापापादितजरठिमासमुपगूढ निरवशेषाङ्गोपाङ्गसङ्घातः कुष्ठक्षयादिः, स खलु भेषजप्रकारमनेकमुपचीयमानमनुदिनमप्यवगणय्य सञ्जातवलः क्षिप्रमाक्षिपति तं रोगिणमकाण्ड एव, न खलु प्रयत्नपरमेण धन्वन्तरिणाऽपि शक्यः समुच्छेत्तुम् । एवं हि तीव्रपरिणामप्रयोगबी. जजनितशक्ति तदायुरात्तमतीतजन्मनि न शक्यमन्तराल एवावच्छेत्तुमित्यनपवर्तनीयमुच्यते । तथा हि-कालाकालसमाप्त्योरायुषःसम्भवत्यने निदर्शनं, तबलाच्च प्रतीतिरुपजायते श्रोतुः, अतस्तदभिधानमाम्रफलपाकवत् भसकव्याधिपरिगतपुरुषभोजनवत् वेष्टितार्द्रपटविततशोषवत् , वेष्टितपलालवृतरज्जुप्रगुणीकृतदाहवत्, एकार्थेषु बुद्धिमन्दग्राहककालभेदवत्, एकमार्गेऽश्वपगुगमनभेदवत् , यथैता भिन्नकालानुवर्तिन्योऽप्यवस्थास्तुल्यनिदर्शनगतास्तथा तुल्येऽपि कर्मणि स्वपरिणामादिक्रियाविशेषाद् भिन्नोऽनुभवकालः परममध्यमजघन्याख्यः, तसाद् द्विविधमायुरपवर्तनीयमनपवयं चेति व्यवस्थितम् ।। अधुनाऽनपवर्तनीयायूंषि द्विविधान्यभिधित्सुराह-अनपवर्तनीयानि पुनर्द्धिविधानि-सोपक्रमाणि निरुपक्रमाणि च । तत्रोपक्रमणमुपक्रमःप्रत्यासन्नीकरणकारणमुपक्रमशब्दाभिधेयम्, अतिदीर्घकालस्थित्यप्यायुर्येन कारणविशेषेणाध्यवसानादिनाऽल्पकालस्थितिकमापाद्यते स कारणकलाप उपक्रमः,तेन तादृशो
पक्रमेण सोपक्रमाण्यनपवर्तनीयान्यायूंषि भवन्ति । निर्गतोपक्रमाणि निरुपअपवर्तनेऽपि क्षयाभाव: न कमाण्यध्यवसानादिकारणकलापाभावात्, यथैव तजिहास्यते अतिदीर्घका
लस्थितिस्वपरिणतिविशेषात् तथा अल्पमपि वृद्धिमापादयिष्यते रसायनाथुपयोगतश्चेत् तन्न, अबद्धत्वात्, जन्मान्तरे हि बद्धमायुस्तावता वा कालेनानुभूयेत हस्वीयसा वाऽध्यवसानादियोगात् आभिचारिककर्मणाऽवाप्य कालफलपाकवत् स्याद, अबद्धं पुनर्न शक्यते संवर्धयितुममृतोपयोगेनापि । यथा हि दीर्घपटः प्रागुक्तो वेष्टनयाऽल्पः शक्यः कर्तुं न पुनाधिमानमापादयितुमनुपात्ततावदलिकत्वात् । स्यादेतद् रसायनाथुपयोगाद् यावस्थितिकमात्तं प्रागायुस्तावती स्थितिमखण्डयत् तदासीत न पुनर्वृद्धिमश्रद्धेयामाधातुमलं तदिति । अत्र च किलोपपातिका असङ्ख्येयवर्षायुषश्च निरुपकमा एव, चरमदेहाः उत्तमपुरुषाश्च सोपक्रमा निरुपक्रमाश्च ॥ नन्विदं विप्रतिषेध्यमनपवायुषः सोपक्रमाचेति । उच्यते-अध्यवसानाधुपक्रमकारणानि किल सन्त्यमीषां चरमदेहोत्तमपुरुषाणांन पुनरायुरपवत्येते, सत्स्वपि तेष्वनपवायुष्ट्वात् , न खलूपक्रमसन्निधानं तत्र प्रतिषिध्यते, किन्तु सत्यप्युपक्रमकारणसान्निध्येऽतिगाढवन्धत्वान्न तदायुरपवयते ॥ ननु चौपपातिकासङ्ख्येयवर्षायुषामपि तुल्यमेतत् सन्निधानमिति । उच्यते-सत्यम्, नारकादीनामुपक्रमकलापः सनिहितस्तथापि ते सोपक्रमायुषो न भण्यन्ते
१' मार्गेऽष्ठपङ्गु' इति ख-पाठः। २' तथैव ' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org