________________
सूत्रं ५१ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
आयुष द्वैव
मनः किमकालमृत्युरप्यस्तीति, तत एव आयोधनादक्षतवपुषः परिणति ( त ) शतजर्जरसकलसन्धयः स्थविरास्तीत्रहेतिहस्तास्तीरयित्वा समरमेपगच्छन्तोऽवलोक्यन्ते, अतोऽवगम्यते - न खलु कश्चिदकाल एव विषमाण्यवगाहमानो ऽपि शरशतापादितक्षतिरपि प्रकृष्टदुःखवेदनार्तो मरणमभिलषन्नपि प्राणैर्वियुज्यते, एवमनेकस्मिन् संशयबीजप्रसवे सति प्रश्नप्रवृत्तौ प्रतिवचनमुच्यतेद्विविधान्यायूंषि - अपवर्तनीयान्यनपवर्तनीयानि चेति । अकाले मृत्योरस्ति सम्भव इत्येवंविधार्थप्रदर्शनपरायणमिदमास्तीर्यते भाष्यम् । द्विविधान्याषि - जीवितानि भवन्ति, प्रयोगविशेषाच्च द्वैविध्यं न स्वभावात्, तत्रायुषो बन्धकास्तावत् सम्यग् - मिथ्यादृष्टिविरहिता मिथ्यादृष्टेरारभ्य यावदप्रमत्तसंयत इति षट्सु स्थानेषु ध्यम् जन्तवः अजघन्योत्कृष्टाध्यवसायविशेषभाजः पृथुकषायाः साद्यधुवायुर्वि कल्पयुजः, तत्र नारकदेवासङ्ख्ये यवर्षायुषः प्राणिनः षण्मास्यामवशेषायां नियमादायुषो बन्धकाः । शेषास्त्वायुषस्त्रिभागेऽवशेषे पुरोवर्तिजन्मानुभवयोग्यमायुर्बध्नन्ति, त्रिभागात्रिभागे वाऽवशेष इति । अथवा त्रिभागात्रिभागात्रिभागे वाऽवशेष इति । एतदुक्तं भवति — त्रिभागावशेषायुषो नवभागशेषायुषः सप्तविंशतिभागावशेषायुषो वा परभवायुर्वन्ति, ततः परं न बघ्नन्तीत्यर्थः । तत्रावनिजलज्वलन मारुततरुद्वित्रिचतुरिन्द्रियाणां निरुपक्रमायुषां च पञ्चेन्द्रियाणां नियमित एव त्रिभागावशेषे बन्धो भवत्यायुषः, सोपक्रमायुषां पुनः पञ्चेन्द्रियाणामनियमेन बन्धो यावत् सप्तविंशतिभागावशेषकल्पनेति, ते च प्राणिनस्तदैव तदायुर्वन्तोऽध्यवसायविशेषात् केचिदपवर्तनार्हं कुर्वन्ति केचिदनपवर्तनीयमिति, मन्दपरिणामप्रयोगोपचितमपवर्त्य तीव्रपरिणामप्रयोगोपचितमनपवर्त्यम्, तत्रापवर्तना नाम प्राक्तनजन्मविरचितस्थितेरल्पतापादनमध्यवसानादिविशेषात्, अनपवर्तनीयं पुनस्तावत्कालस्थित्येव न हासमायाति स्वकालावधेरारात्, तैलवर्तिक्षयतो निर्विघातप्रदीपोपशान्तिवत् घनसंहतत्वाद् वा पवनश्लेषवत्, तच्च किलाखिन्नवीर्यारब्धत्वात् असङ्ख्ये य समयोपार्जितमायुरनपवर्त्यम्, तथा गाढबन्धनत्वान्निकाचितबन्धात्मनियमादनपवर्त्यायुर्भवति । अथवैकनाडिकापरिगृहीतमायुः संहतिमत्वात् संहत पुरुष राशिवदभेद्यं वा एकनाडिकाविवरप्रक्षिप्तबीज निष्पादितसस्य संहतिवद् वा, विवराद् बहिः पतितबीजप्रसूतं हि सस्यम संहतत्वात् प्रविरलतायां सत्यां सर्वस्यैव गवादेर्गम्यम्, एवं किलायमात्माऽऽयुर्वन्नने कात्मलब्धिपरिणामस्वाभाव्याच्छरीरव्याप्यपि सन्नाडिकामार्गपरिणामो भवति, ततस्तामवस्थामासाद्य यानायुष्कपुद्गलान् बन्धाति ते नाडिकाप्रविष्टत्वात् संहतिमत्त्वे सति अभेद्या विषशस्त्राग्न्यादीनामिति, मन्दतीत्रपरिणामसन्निधानाच्च स तत् तथा जन्मान्तर एव रचयति इहत्यजन्मन्याधिवत् । अल्पाद्धातुवैषम्यनिदानापथ्यसेवनाद् यो व्याधिः समुपजातः स कालान्तरेणोपेक्ष्यमाणः समासादितोदग्रवृद्धिः समूलघातं निहन्ति शरीरकं, न पुनराश्वेव, निपुणभिषग्वरोपदिष्टतत्प्रत्यनीकक्रियाकलापानुष्ठानाच्च द्राग् विच्छेदमापाद्यते, तथैव यन्म
•
१ समरमपयान्तः ' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
२१९
www.jainelibrary.org