________________
२१० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ नन्त्यादित्येष ग्रन्थः सर्वो विघटेत, लब्धिप्रत्यय एवाङ्गीक्रियमाणे तैजसवपुषि, अतो विद्यमानमपि सर्वासुमत्सु सहजमनादृत्य तैजसं लब्ध्यधिकारे लब्धिप्रत्ययमेवाचष्टे नेतरदिति । तैजसं शरीरं तैजसशरीरलब्धिकारणसमुद्भतशक्ति भवति तपोविशेषानुष्ठानात् कस्यचिदेव जातुचित्, न सर्वस्येति । इदानीं सकलशरीरवीजभूतं कार्मणं नियमेन दर्शयन्नाह
भा०-कार्मणमेषां निबन्धनमाश्रयो भवति । तत्कर्मत एव भवतीति कार्मणस्य स्वरूपम् ,
- बन्धे पुरस्ताद् वक्ष्यति । कर्म हि कार्मणस्य कारणमन्येषां च
पप शरीराणामादित्यप्रकाशवत् । यथाऽऽदित्यः स्वमात्मानं प्रका शयति अन्यानि च द्रव्याणि, ने चास्यान्यः प्रकाशकः, एवं कार्मणमात्मनश्च कारणमन्येषां च शरीराणामिति ॥
टी०-कार्मणमेषां निबन्धनमाश्रयो भवतीत्यादि । कर्मणो विकारः कार्मणं, तदेषामौदारिकादीनां शरीराणां निबन्धनं बीजमाश्रयः सकलशक्त्याधारत्वात् कुडयमिव चित्रकर्मणो भवति । आमूलमुच्छिन्ने तु भवप्रपञ्चप्ररोहबीजे कार्मणे वपुषि न पुनर्विमुक्तिभाजः शरीरकाणा()मधियन्त्यपि प्रक्षालितसकलकल्मषाः, तचैवविध कार्मणं कर्मभ्य एव ज्ञानावरणादिभ्यो जायते न पुनरन्यत् तस्य कारणमस्ति, ज्ञानावरणादिकं चाष्टमेऽध्याये बन्धाधिकारे पुरस्तात् अग्रे वक्ष्यति समूलोसरैम् , एतदेव चार्थजातं स्पष्टयन्नाह-कर्म हीत्यादि । यस्मात् ज्ञानावरणादिकर्म कार्मणस्य कारणं तदात्मकत्वात् अन्येषां चौदारिकादिशरीराणाम्, न च स्वात्मनि क्रियाविरोधः, आदित्यप्रकाशवत्। प्रकाशं दृष्टान्ततयोपन्यस्य विवरणकाले यथाऽऽदित्य इत्याह तदेतत् कथम् ? न खलु सर्वथाऽऽदित्यात् प्रकाशो व्यतिरिक्त इत्यभ्युपेतुं शक्यम् , तेन प्रकाशस्वभावः प्रकाशमयः आदित्य इत्यनेन न कश्चिद् विशेषः, आदित्यप्रकाशवदादित्यवद् वाभिहितः, स यथा तिग्मांशुः स्वमण्डलं प्रकाशयत्यन्यानि च स्तम्भकुम्भादिद्रव्याणि, न चान्यपदार्थः प्रकाशकः सवितृमण्डलस्यानवस्थाप्रसक्तरभ्युपेतुं शक्यः॥ ननु च घटायप्रकाशात्मकत्वात् प्रकाशयतु भास्वान, मूर्तिस्तु प्रकाशात्मिकैव तस्याः किं प्रकाश्यते तत्स्वभावत्वादिति ?। उच्यते-यद्यपि प्रकाशस्वभावा मूर्तिस्तथापि सा प्रकाश्यैव भवति, प्रमाणवत् , प्रमाणं हि स्वपररूपप्रकाशकारीष्यते, अन्यथा चानेकदोषापत्तिः स्यात् । एवं कार्मणमित्यादि । एवमेतेनादित्यप्रकाशनिदर्शनेन कामेणं शरीरमात्मनश्च स्वरूपस्य कारणमन्येषां चौदारिकादिवपुषाम् , न पुनज्ञानावरणादिकमेव्यतिरिक्तमस्य कारणमन्वेषित कार्मणतेजस- व्यम् , कर्ममात्रत्वात् कर्मस्वभावत्वात् कार्मणस्येति । एतयोश्च तैजसप्रमाणम् कार्मणयोरवरतः प्रमाणमगुलासंख्येयभागः उत्कृष्टतश्चौदारिकशरीर
१ 'परस्ताद्' इति घ-पाठः। २ 'न चास्याम्यैः प्रकाशः' इति ख-पाठः। ३ ' विभक्तिभाजः' इति ख--पाठः। ४ 'मूलोत्तरभेदम् ' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org