________________
सूत्रं ४९]
स्वोपज्ञभाष्य-टीकालङ्कृतम् प्रमाणे केवलिनः समुद्घाते लोकप्रमाणे वा भवतः मरणान्तिकसमुद्घाते वा आयामतो लोकान्ताल्लोकान्तायते स्यातामिति ॥ भा०-अत्राह-औदारिकमित्येतदादीनां शरीरसंज्ञानां कः पदार्थ
_ इति । अत्रोच्यते-उद्गतारमुदारम् , उत्कटारमुदारम् , उद्गम Nata औदारिकस्य
एव वोदारम् , उपादानात् प्रभृति अनुसमयमुद्गच्छति वर्धते
जीर्यते शीर्यते परिणमतीत्युदारम्, उदारमेवौदारिकम् , नैवमन्यानि । यथोद्गम वा निरतिशेष, ग्राह्यं छेद्यं भेद्यं दाह्यं हार्यमित्युदाहरणादौदारिकम् , नैवमन्यानि, उदारमिति चस्थूलनाम। स्थूलमुद्गतं पुष्टं वृहन्महदिति, उदारमवादारकम् । नैवं शेषाणि । तेषां हि परं परं सूक्ष्ममित्युक्तम् (अ० २, मू० ३८) . टी-संशयानः पृच्छति, औदारिकमिति पदमादौ येषां वैक्रियादिपदानां तेषाम् एतदादीनां कोऽर्थोऽत्र विवक्षितः ? एतदुक्तं भवति-किमेता औदारिकादिसंज्ञा अर्थवत्तामनुगता विधीयन्ते आहोस्विद् यदृच्छयेति ? । अन्वर्थसंज्ञा एता न यादृच्छिक्य इति भाष्यकृदादर्शयति-उद्गतारमुदारमित्यादिना भाष्येण । अन्वर्थत्वाच्च संज्ञयैव लक्षणभेदं प्रथयति, पृथग्लक्षणव्यवस्थानं वा, अत एवान्वर्थसंज्ञाविवरणान्नैवमन्यानीति प्रत्येकमन्यलक्षणव्यवच्छेदेनान्यलक्षणाभिधानात्, एभ्य एव विशेषेभ्यः शरीराणां नानात्वं सेत्स्यति । ननु च शरीरप्रकरणप्रथमसूत्रे एतद् भाष्यं युक्तं स्यात्, इह तु प्रकरणान्ताभिधाने न किश्चित् प्रयोजनं वैशेषिकमस्तीति । उच्यते-तदेवमयं मन्यते, तदेवेदमादिसूत्रमाप्रकरणपरिसमातेः प्रपञ्च्यते, अथवा प्रकरणान्ताभिधाने सत्यमेव न किञ्चित् फलमस्त्यसूत्रार्थत्वादतः क्षम्यतामिदमेकमाचायेस्येति, तत्र उद्गतारमुदारम् इति । उद्गता-उत्कृष्टा आरा-छाया यस्य तदुद्गतारमुदारं प्रधानमित्यर्थः । तीर्थङ्करगणधरशरीराङ्गीकरणादेवमुच्यते, नहि तीर्थकरादिशरीरेभ्योऽन्यत् प्रधानतरमस्ति त्रिलोक्यां शरीरमिति । अथवा उत्कटारमुदारम् । उत्कृष्टा आरा-मर्यादा-प्रमाणं यस्य तदुत्कटारमुदारम् , अवस्थितसातिरेकयोजनसहरप्रमाणत्वात् , अन्यच्चैवंविधं नास्ति ॥ ननु वैक्रियमधिका योजनलक्षेति सत्यमेवमेतद् , अवस्थितं तन्न भवति, पञ्चधनुःशतप्रमाणमेवावस्थितं वैक्रियम्, औदारिकं पुनरवस्थितमेवमुच्यते । उद्गम एव वा उदारः, उद्गमनं-उद्गमः-प्रादुर्भावः स एव चोदारशब्देनोच्यते । यत उपादानात् प्रभृतीत्यादि । उपादानं हि शुक्रशोणिताद्यौदारिकस्य तद्हणप्रभृत्येव चानुसमयमुद्गच्छति अविभज्यमानस्वरूपः कालविशेषः समयोभिधीयते, अतः प्रतिसमयमेव तदुत्तरामुत्तरां व्यवस्था स्वीयपर्याप्त्यपेक्षामुद्गच्छति-प्राप्नोति, न तदस्ति कालविवरं यत्रावस्थान्तरं न समासादयतीति, एवं च भाष्यकारो दर्शयति-तत् वर्धते वयःपरिणामेनोपचीयमानमूर्ति प्रतिवेलमाभाव्यते, जीर्यत इति जरामधिगच्छति-वयोहानिमाप्नोति, शीर्यत इति शिथिलसन्धि
१' दारणा. ' इति घ-पाठः । २' प्रतिवलयमा० ' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org