________________
२०९
आहारकस्य
स्यविचा
सूत्र ४९]
स्वोपज्ञभाष्य टीकालङ्कृतम् भा०-तचतुर्दशपूर्वधर एव । कस्मिंश्चिदर्थे कृच्छ्रेऽत्यन्तसूक्ष्मे सन्देहमापन्नो
निश्चयाधिगमार्थ क्षेत्रान्तरितस्य भगवतोऽर्हतः पादमूलमौस्वामी र दारिकेण शरीरेणाशक्यगमनं मत्वा लब्धिप्रत्ययमेवोत्पाद
यति । पृष्ट्वाऽथ भगवन्तं छिन्नसंशयः पुनरागत्य व्युत्सृजत्यन्तर्मुहूर्तस्य ॥
टी०–तदेवंविधमाहारकं चतुर्दशपूर्वधर एव-लब्धिप्रत्ययमेवोत्पादयतीति क्रियोपरिष्टादभिधास्यते । चतुर्दशेति सङ्ख्या, पूर्व प्रणयनात् पूर्वाण्युच्यन्ते, तानि धारणाचतुर्दशपूर्वधर... ज्ञानेनालम्बत इति चतुर्दशपूर्वधरः, स च द्विविधः-भिन्नाक्षरोभिन्ना
क्षरश्च, ते च यस्यैकैकमक्षरं श्रुतज्ञानगम्यपर्यायैः सत् कारिकामेदेन
भिन्नं वितिमिरतामितं स भिन्नाक्षरः, तस्य च श्रुतज्ञानसंशयापगमात् प्रश्नाभावस्ततश्चाहारकलब्धितामपि नैवोपजीवति विनालम्बनेन, स एव श्रुतकेवली भण्यते, शेषः करोत्यकृत्स्नश्रुतज्ञानलाभादवीतरागत्वाच्च, अत एव केचिदपरितुष्यन्तः सूत्रमाचायकृतन्यासादधिकमधीयते " अकृत्स्नश्रुतस्यर्द्धिमतः " इत्यनेन विशेषणकलापेनेति, एवंविधश्चतुर्दशपूर्वधर एव सञ्जातलब्धिस्तन्निवर्तयति, नान्यः श्रुतविदन्यो वा अवधारणफलम् । किमर्थं पुनरसौ तां लब्धिमुपजीवतीत्याह-कस्मिंश्चिदर्थे इत्यादि । श्रुतज्ञानगम्ये कस्मिंश्चिदेवार्थेऽत्यन्तगहने सन्दिहानस्तदर्थनिश्चितये विदेहादिक्षेत्रवर्तिनोऽर्हतश्चरणकमलाभ्याशमौदारिकेण वपुषा न खलु पार्यते गन्तुमित्यवबुध्य सञ्जात िविशेषो लब्धिप्रत्ययमेव नान्यप्रत्ययमुपजनयति आहारकशरीरं, गत्वा च तत्राशु भगवन्तमालोकितसमस्तलोकालोकमालोक्याभिवन्द्य पृष्टा च विच्छिन्नसंशयः परिभूतपाप्मा पुनरागत्य तमेव देश यत्र प्राग् गच्छतौदारिकमनाबाधबुद्धया न्यासकवनिक्षिप्तं स्वप्रदेशजालावबद्धं तदवस्थमास्ते, ततो विहायाहारकमुपसंहारमानीयात्मप्रदेशजालं प्रागौदारिकमेवानुप्रविशति, एष चारम्भात् प्रभृत्या अपवर्गात् सर्वोऽन्तर्मुहूर्तपरिमाणः कालो भवतीति, प्रमाणं चास्यावरतो न्यूनः पाणिरुकर्षण सम्पूर्ण इति ॥ अथ तैजसकामणे कस्मिन् जन्मनि समुद्भवत इति नानयोर्नियमः, सर्वत्राप्रतिहतशक्तित्वात, सर्वजन्मसु सहतैजसं कार्मणं वा स्यान तु लब्धितैजसम्, अतो लब्धिप्रस्तावमुपजीवन् भाष्यकारः तैजसमपीत्याहतैजसे हेतुः भा०-तैजसमपि शरीरं लब्धिप्रत्ययं भवति ॥
टी-तेजोविकारस्तैजसं सर्वस्योपलक्षणं रसाद्याहारपाकजननम् , तच्चावश्यं सर्वप्राणिविषयमभ्युपगन्तव्यम् , अन्यथा शरीरपदे तैजसशरीराणि बद्धान्यनन्तानि अनन्तो-त्सर्पिण्यवसर्पिणीसमयराशिसमसङ्ख्यानि कालतः, क्षेत्रतोऽनन्तानन्ता लोकाः, द्रव्यतः सिद्धेभ्योऽनन्तगुणानि सर्वजीवानन्तभागोनानि, किं पुनः कारणमनन्तानि ? तत्स्वामिनामा
१ . दृष्ट्वा च ' इति ख-पाठः, ‘दृष्ट्वा ' इति तु घ-पाठः । २ 'लब्धिसतीमपि ' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org